________________
सप्तमोऽरः विधिनियमोभयनयः
२१९
अभावादभिधानमात्रप्रसङ्ग इत्यतचायुक्तं सत्कार्यत्वमेव, एकान्तपक्षयोर्दोषदर्शनादनेकान्तपक्षे चादोषदर्शनात् सदसदेव कार्यमव्यक्तसव्यक्तसद्भवतीति।
यदपि चोक्तं विकल्पानुपपत्तेरिति, नासौ दोषो विकल्पत्रयानाश्रयात् विकल्पान्तराश्रयणाच, निष्ठासम्बन्धयोरेककालत्वात्, निष्ठा च कारणसामग्रयव्यापारकालः प्रागसतो वस्तुभावो निष्ठानं समाप्तिः, सम्बन्धश्च स्वकारणसत्तासमवायः, सत्तासम्बन्ध एव निष्ठाकालः, कुतः? समवायस्यैकत्वात्, यस्मिन्नेव काले परिनिष्ठां गच्छत् कार्यं कारणैः सम्बध्यते समवायसम्बन्धेनायुतसिद्धिहेतुना, तस्मिन्नेव काले सत्तादिभिरपि, तस्मात् कालस्याप्रतिभागात् प्रागित्यनुपपत्तेरनास्पदः सदादिविकल्पोऽर्थाभावादिति।
एतदपि न, अनुपपन्नविकल्पत्वात्, असम्बन्धात्, असम्बन्धोऽप्यवस्तुत्वात्, खपुष्पवत्, प्रागुत्पत्तेरसतः कार्यस्य परिनिष्ठां गच्छतः कयं वस्तुत्वं? कथं वाऽवस्तुनः कारणैः सत्तया वा सम्बन्धः परिनिष्ठां गच्छेत्, यदि तस्य स्यात् खपुष्पस्यापि स्यात् अवस्तुत्वात् कार्यवत्।
“सम्बन्धकाले तन्तुवद्वस्तुभावात् परिनिष्ठितश्च सम्बद्धश्चेत्येकः कालः, तस्मात् सम्बन्धो वस्तुन इत्युक्तमिति, अत्रोच्यते पुनरपीदं तदवस्थमेव निष्पद्यमानावस्थाया उत्पत्तेः पूर्वकालत्वात्, एककाला चेत्तस्यामवस्थायां कार्यं सदेव स्यात्, स्वकारणैः सत्तया च सम्बध्यमानत्वात्, निष्पन्नकार्यवत् शशविषाणवद्वा, न हि परिनिष्ठायाः सम्बन्धाद्वा सत्त्वम्, सत एव निष्ठासम्बन्धदर्शनात्,