________________
२१८
द्वादशारनयचक्रे भवति कार्यं प्रागभूतक्रियागुणव्यपदेशत्वात् सत्तासम्बन्धिद्रव्यादिवत्, अनैकान्तिकता च । ननु खपुष्पवदनेकान्तः प्रागुत्पत्तेरसत्कार्यं स्यात्, उपजातमात्रद्रव्यादिवत् सत् स्यादिति त्वत्साधनमपि संशयकारीति चेन, प्राविशेषणापक्षिप्तप्रसङ्गत्वात्।
ननु प्राङ् निष्पत्तेरसत् कार्यमिति कालविशिष्टं प्रतिज्ञाय क्रियायभावादिति हेतुरुक्तः, स तु निष्पन्ने नास्ति, सदेव तु द्रव्यं न कार्यमित्यत्र ब्रूमः ननु निष्पत्तिरुत्पत्त्यभूत्वाभावादिसमानार्थिका, तेनाव्यक्तसत् व्यक्तसद्भवतीत्युक्तम्भवति, अनुपनिलीनसत्त्वश्च तज्जातमात्र सत्तोपनिलयनात् प्रागनिष्पन्नं सत्तासामान्येन सद्भवति, निष्पत्तिशब्दो ह्यभूतस्य भवनस्य त्रिप्रकारां निष्पत्तिमाह - नियता निश्चिताऽधिका वा, सा च ते सत्तासम्बन्धादेव द्रव्यादौ कार्ये नियता, निश्चिता सत्त्वान्तरेभ्यो विविक्तत्वात् सत्तायाः, अधिका पुनर्भवनात्।
उपादानस्वसत्तानियता तत्त्वतोऽसौ निश्चिता पटादिव्यावृत्त्या, तण्डुलविचयवत् विचिता निश्चितास्तण्डुलाः कचवरायपनयनेन स्वरूपपरिग्रहेण च, क्रिययाऽनिष्पत्तेः सकाशानिश्चिता घटनिष्पत्तिः, अधिका युगपदयुगपत्पर्यायक्रमतथाभूतेरिहापीति सदसत्त्वं कार्यस्य । तस्मात् सदसत् कार्यम् सदसत्क्रियागुणत्वात्, अन्यथा हेतुशक्त्युपादानानामभिधानमात्रप्रसङ्गः, यद्यसदेव कार्यं तदा हेतुशतयुपादानानामभावे नियमस्य वचनमात्रमेव स्यात्, खपुष्पादिनिष्पत्त्यर्थक्रियाहेत्वायभाववदसत्त्वाविशेषात्।
___ यस्य तु विद्यमान एवार्थस्तस्यापि निष्पाद्यनिष्पादकत्वाविशेषात् कुलालमृद्दण्डाद्यस्तित्ववद्धटास्तित्वादेतेषां सर्वेषां