________________
सप्तमोऽरः विधिनियमोभयनयः
२१७ एतदपि नैव, असत्कार्यत्वसिद्धिवत् सत्कार्यत्वसिद्धेः, अकर्तव्य त्वान्मृत्तत्त्वस्य घटादेः सदेव कार्यमिति भावानां कुतो नेष्यते सत्कार्यत्वम्? न हि घटतायां मृत्तत्त्वाभावे घटस्यावस्थानमस्ति, येन प्रागसन् स्यात्, मृद आत्मैव हि घटात्मा, तत्त्यागे तत्स्वरूपानुपपत्तेः, अतीतानागतवर्तमानविचित्रविशेषस्वभावसद्भूतमृत्त्ववत्, अतीतानागतवर्त्तमानविचित्रविशेषाध्यासितभाव सद्भूतघटवदिति।
एतेन सर्वास्याद्वादः प्रत्युक्तः।
यदपि चोपादाननियमसत्त्वप्रतिषेधार्थमुत्तरं कर्तृकर्मेति क्रियानिमित्तको शब्दौ, तत्र प्राक् प्रसिद्धव्यापारयोग्यद्रव्योपादानं तत् क्रियानिमित्तं न कार्यसत्त्वनिमित्तमिति, अर्थस्य व्यापारनियमः कुतः? स हि कार्यसत्त्वमन्तरेण न सिद्धयति, समर्थस्य करणेऽधिकारपरिग्रहात् स इति चेत् समर्थस्यैव कार्यक्रियायामधिकारपरिग्रहणात् कार्यमसदेव, ननु त्वयैव समर्थस्य करणेऽधिकारपरि -ग्रहादुपादाननियम इति ब्रुवता सत्कार्यत्वं समर्थितम्, एकीभावं गतार्थस्य समर्थत्वात्। ____ अथ कथं तन्तुतुर्यादिपटनिवृत्तौ कारणत्वेनोपादीयते, न पांशुवास्यादीति, न, तस्यैव तथा तथा समर्थत्वात्, पटादिकार्य तन्तुषु तत्कारणेषु च तत्र तत्रास्त्येव, तत्समवायव्यङ्गयत्वात् तदात्मकत्वाच, तथा तुर्यादिष्वपि पांश्वादिष्वपि च तत्कारणकारणत्वात्, परमाणुवत्।
योऽप्युपचयहेतुः क्रियागुणव्यपदेशाभावात् प्रागसत् कार्य खपुष्पवदिति, अयमेव ते उपचयहेतुः परपक्षसाधनाय – सदेव