________________
२१६
द्वादशारनयचक्रे व्यूहावकाशदानात्मकपृथिव्यायात्मकत्वान्मृदादेर्घटादेश्व कथं मृदमेकामपेक्ष्य मृदात्मनैवास्तीत्यापेक्षिकमसत्त्वमसद्धादिवत्, आपेक्षिक -मृदात्मसद्विशेषणात्त्वसदभिधानमेवेदं मृदात्मना सत् घटात्मना चासदिति वचनम्, अभिधेयस्वतत्त्वनिरसननियतत्वात्, यद्वाक्यमभिधेयस्वतत्त्वनिरसननियतं तदसदभिधानं दृष्टम्, यथाऽनुष्णोऽग्निरित्युक्तिरिति, अव्युदासे तु घटात्मनापि सन्नेव, तद्भावत्वात्, तथा च सत्कार्यत्वोक्तिरेव कृता तथा वदता।
सदसदात्मकैकं वस्तुतत्त्वं द्रव्यार्थपर्यायार्थोभयलक्षणं जैना उपवर्णयन्ति खपुष्पवदन्यथाऽसम्भवात्, द्रव्यशब्दमपि मृदादि रूपायतीतानागतवर्तमानभेदाभेदार्थं पर्यायशब्दं सर्वाभेदभेदार्थ तेष्वेव, तस्मादुभयोरुभयार्थत्वम्।
मृदात्मानं घटात्मानं द्रव्यार्थपर्यायार्थम्, द्रव्यं हि घटो यावद्रव्यार्थमत्यन्तसन्, पर्यायस्तु यावत् पर्यायार्थमसन्, यथा च घटात्मा मृदप्येवम्, इदमपि च कुतो निष्पन्नेऽपि घटे मृत्त्वदर्शनात् मृदात्मकस्योपादानम्, न पुनभृत्यादिवत् सङ्ग्रहादि दर्शनाज्जलायात्मकस्येति? तस्मान मृद एव दर्शनमुभयथाऽपि।
असत्त्वाद्धटात्मनेति कुत एतत्? न पुनर्मुत्तत्त्वघटसत्त्वात्, तत्त्व एवानुभवक्रमप्राप्तेः, तत्प्रत्यग्रादिवत्।
यदपि च न, असत्कार्यत्वसिद्धेः, एवं तर्हि मृदात्मनः कर्त्तव्यत्वाभावात्, क्रियत इति हि कार्यम्, न च मृत् क्रियते, घटो हि क्रियते, स त्वसन्, तस्मान प्रागुत्पत्तेः सदसत् कार्यमिति,