SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ सप्तमोऽरः विधिनियमोभयनयः २१५ सन्धानं नास्त्येकाधिकरणभावेनेति प्रयोगानुपपत्तिः, एषोऽर्थो दर्शितः कार्ये सदसत्ता नेति सप्तम्यभिधाने नेति, एतदपि न किञ्चित्, इतरेतरभूताभूततत्त्वं जगत्, न केवलं कार्यमेव सदसत्, वृत्तावृत्तपर्यायार्थेनाविभक्तद्रव्यार्थभावनायां निखिलं जगत् सदेवासत्, किन्तूभयपर्यायप्रत्यपेक्षया भावयितव्ये निःसन्दिग्धमेव वस्तुनः स्वात्मनि, तथा चेतरेतराभावरूपेण स्वेन च भावरूपेण सदेवासत् सर्वमिति न सदसतोर्वधर्म्यम्। यदप्युक्तमापेक्षिकं सदसत्त्वं स्याद्वादी किलेत्थं समर्थयति - मृदात्मना घटस्य प्रागुत्पत्तेः सत्त्वम्, घटात्मना चासत्त्वमिति, न, असत्कार्यत्वसिद्धेः - एवं तर्हि मृदात्मनः कर्तव्यत्वाभावात्, क्रियते इति हि कार्यम्, न च मृत् क्रियते घटो हि क्रियते स त्वसन्। तस्मान प्रागुत्पत्तेः सदसत्कार्यमिति । अत्र न पूर्वपक्षो नोत्तरपक्षश्च सत्यः । को हि नाम सोऽनेकान्तवादी यात्-प्राक् मृदात्मना सत्, घटात्मना चासत् कार्यमिति, यदि ब्रूयादनेकान्तवादत्याग एकान्तवादाभ्युपगमश्च । एवं हि मृदोऽकार्यत्वेऽसत्कार्यवाद एवावस्थापितः स्यात्, ततथैवं ब्रुवाणेषु को भेदः? अभूत्वोत्पत्तिवाचकप्राक् शब्दोच्चारणादेव चासत्त्वैकान्तः साक्षादभ्युपगतः, ततः किमर्थ विवदेत, अत्यन्तासमीक्षितभाषिणैकान्तवादिनापि न तुल्यता मेत्यसौ। देशकालभेदलक्षणोभयपर्यायमात्रत्वाच्चैवमयमसद्वाद एवं स्यात्, इत्यं पुनः कोऽनेकान्तवादी ब्रूयाद्रूपं रसात्मना नास्ति रसोऽपि रूपात्मना कृष्णाद्यपि शुक्लात्मनेत्यादि, धृतिसङ्ग्रहपक्ति
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy