________________
२१४
द्वादशारनयचक्रे
वैशेषिकोऽपि विशेषं ब्रूयात् क एनं किञ्चिदपि ब्रूयात्, तस्मान स्तः स्याद्वादिनः पूर्वदोषौ, कुतः पापीयस्त्वम्? ।
एवमस्मिन् पूर्वश्रेयस्त्वार्थ आयुगाहे दर्शित एव स स्वपक्षरागादस्मत्प्रद्वेषाद्वा नावबुद्धस्त्वया।
यत्पुनरिदं 'सद्भागस्योपादाननियमः, असद्भागस्य क्रिया च युज्यतेऽतः सदसंदशयोरन्यतराश्रयेण तावंशी वस्तुनि स्त एवेति चेन्न विपर्ययप्रसङ्गात्, एकस्योभयात्मकैकवस्तुत्वे कुत एतत् सद्भागमाश्रित्यैवोपादाननियमो न त्वसद्भागमाश्रित्य, असद्भागमाश्रित्यैव च क्रिया, न सद्भागमाश्रित्येति विशेषहेत्वभावादिति पूर्वदोषपापीयस्त्वं एव' इति । एतदपि न किश्चित्, कार्यत्वादेव । क्रियत इति हि कार्यम्। तस्मिन्नुपादानक्रिययोः स्वविषयनियती, एकस्योभयात्मकत्वात्, एकपुरुषनियतपितृपुत्रत्ववत्, न ोकस्य पुरुषस्य पितृपुत्रत्वात्मकत्वेऽपि ते अनियतविषये दृष्टे किन्तु नियतविषये एव, न तु नियमाभावः, एवं वस्तुन उभयात्मकैकरूपत्वेऽप्युपादानक्रिययोः स्वस्वविषयनियतत्वान्न विपर्ययप्रसङ्गः।
विपर्ययप्रसङ्गापत्तावप्येवंविधार्यतैव, सदसदात्मनो वस्तुनोऽ सद्भागमाश्रित्योपादाननियमाभाव एव, अनुपादानसत्तादिभावसामान्यलभ्यस्वरूपत्वात्, अस्य नोपादाननियमोऽस्ति, सद्भागमाश्रित्य क्रियाया अभाव एव, तस्य वादिनः सर्वस्य तथात्वादसनाम किञ्चिन्नास्ति।
यतूच्यते सदसतोर्वेधादेकस्मिन्नेव कार्ये प्रागुत्पत्तेः सदसच्छब्दार्थयोरेकाधिकरणभावेन प्रयोगो नास्ति - सदेवासदित्यनु