SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ सप्तमोऽरः विधिनियमोभयनयः २१३ सोपाख्यम्, स्वपरप्रत्ययाभिधानाधानात्तदेव निरुपाख्यश्च, वस्तुवत् सामान्याद्यन्तराभावादिति सोपाख्यमेव निरुपाख्यम्, वस्तुनि विपर्यय इति व्यवस्थापिते दृष्टान्ते ताभ्यां धर्माभ्यामेव प्रतिपद्यतां भवान् सोपाख्यनिरुपाख्यत्वात् __सामान्यादिद्रव्यादिवत् सदसत्त्वमिति। यत्तूक्तं स्याद्वादिनं प्रति पूर्वदोषपापीयस्त्वान सदसत् कार्यम्, तत्र हि सदसत्कार्यपक्षयोः सति क्रियाया अभावः, असति चोपादाननियमाभावः, विरोधादिति ब्रुवतो जैनस्यापि हेतूपादानक्रियानियमाभाव इति द्विदोषता पापीयसीति, तन्न, परिहृतपूर्वदोषत्वात्। तत्र हि सत्कार्यपक्षे क्रिया किं विरुध्यते? यदसावेकान्तेन सन्नेव घटः इत्याह ततस्तस्य क्रियाकरणं न युज्यते, कर्त्तव्यत्वाभावात् कृतवदित्येवं तस्य क्रियाऽभावदोषो भवति, न पुनराकादित्तकर्त्तव्यपर्यायद्रव्यवादिनः स्याद्वादिनः, यदि त्वसौ स्यादादिना कर्त्तव्यत्वमपि विदधीत क एनमेवं ब्रूयात् 'क्रियाभावदोषस्ते प्राप्तः, कर्त्तव्यत्वाभावात्, कृतकवदिति'। असत्कार्यपक्षेऽप्युपादाननियमः किं विरुध्यते? यदसावे कान्तेन क्रियागुणव्यपदेशाभावादसत्कार्यमिति हेतुषु सन्निहितस्या व्यक्तस्यार्थस्यपर्यवज्ञया ब्रूयात् तस्य पटार्थितायां तत्तदुपादाननियमो न युज्यते, तत्रासत्त्वात्तृणादिवदित्यसत्कार्यैकान्तवादेऽप्युपादान नियमाभावदोषः, सोऽनेकान्तवादे स्यादादिविशिष्टे नास्ति तथा यदि
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy