SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ २१२ द्वादशारनयचक्रे अर्थान्तरभूतक्षणभङ्गविलक्षणच अतीतानागतवर्तमानभिन्नभवनसदसदेकक्रियः, तस्मादभावो भावाङ्गं भावात्मा भावप्रवृत्तिरेव, आकाशवदितोऽपीतोऽपीति। इतरथा च नैव भवेद्वस्तु, अपूर्वत्वात्, खपुष्पवत्, वैधैर्येण चम्पकपुष्पवत् । तस्माद्वर्त्तमानमेव न स्यात्ततश्च नैव स्यात्, वान्ध्येयवत् क्षणिकवादवत्। तस्मान्न सदसतोः प्रतिपक्षत्वम् । इतश्च नानैकात्म्यम्, विधिप्रतिषेधैकविषयत्वात्, भावितैकात्म्यचेतना चेतनत्ववत्। यदपि च वैधर्म्यमुच्यते सत्सोपाख्यमसन्निरुपाख्यमिति तदपि नोपपद्यते, सतोऽप्यनुपाख्यत्वात् । को हि प्रतिवस्तुविलक्षणसत्त्वेन सद्वस्तु प्रतिक्षणमुपाख्यातुं शक्नोति असाधारणत्वात्, स्वसुखादिपर्यनुभववत् । अथ च निरुपाख्यतायामपि नैव तदसत्, सामान्यसोपाख्यत्वात्, यदप्यसाधारणं सुखादिपर्यनुभवादि तदपि सामान्येनो -पाख्यायते किमपि सुखं. दुःखमित्यादि । अपि च त्वयापि द्रव्यादिकार्येण वस्तूभृतिप्रकाशमात्रेण द्रव्यादेरुपयोगक्रिया नास्तीत्य -शक्तसदसत्त्वादिति विचित्रोपभोगक्रियाप्रसिद्धयर्थं सत्ता द्रव्यत्वादि -विशेषणसम्बन्धः कल्प्य इति वदता । अथ च मतमसत् तत् सम्बन्धसत्त्वात् तस्यामवस्थायाम्, सोपाख्यञ्च तदुत्तरकालं सत्तासम्बन्धोपाख्यत्वादिति व्यभिचार उक्तः। । सदसदेव तु सोपाख्यनिरुपाख्यत्वात्, सामान्यवत्, अथ वा सोपाख्यं निरुपाख्यञ्च, सदसत्त्वात्, सामान्यवत्, सामान्यं स्वसत्, न सामान्यसत्, वस्तुवदिति सदेवासत् सामान्यम्, तदेव च
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy