________________
सप्तमोऽर: विधिनियमोभयनयः
तदुभयम्,
जातिजातिमद्भेदेभ्यो द्रव्यसत्तयोर्भेदात् तन्तुसमवायवदितरेतरा
भावादिवर्णनैश्व1
२११
कारणकार्याकारणकार्यनित्यानित्यसम्बन्ध्यसम्बन्धि
अथेदं जैनेन्द्रत्वमेव प्रतिपद्य बहुधा प्रज्ञाप्य च मा भूदृजुजनेषु जैनानामेव गौरवं मम च लाघवमिति त्वयैवं नानाऽविविक्तप्रज्ञाः प्रतिसंब्रियन्ते, विगृह्यन्ते वा, नाहं जैनेन्द्रत्वमभ्युपैमि, न चाविविक्तप्रज्ञान् प्रतिसंवृणोमि, न तु विगृह्यैवात्र वादः, स तु सिद्धार्थसुतमतावलम्बिनं त्वामेवोद्दिश्य, यदुच्यते सैद्धार्थयैरुपादाननियमदर्शनात् सत् कार्यम्, तिलवत्, तत्क्रियाद्यसत्त्वदर्शनादसत्, वीरणेष्विव घटो मृद्यपि, दृष्टा तु क्रिया, उपादाननियमश्व तथाऽनिच्छतोऽविशेषः, उपादानमेवानुपादानमेव वा, लब्धात्म पदार्थकारकव्यापाराभाववत् प्रागपि व्यापाराभावश्व, उभयैकान्ते
दोषदर्शनात् ।
1
तन्न विकल्पानुपपत्तेः सदेवासत् सदसत् स्वेनैवात्मना सच्च असच्चान्येनात्मना प्रागुत्पत्तेः घटो मृदात्मना सत् घटात्मना चासत्, न तावत् . असत्त्वप्रतिपक्षञ्च सत्त्वम्, सत् सोपाख्यमसन्निरुपाख्यम्, सदसत्त्वं न भवतीत्यर्थः ।
तूपादानसतोऽसत्प्रतिपक्षत्वमसिद्धम्,
.....
अत्र
तदङ्गत्वात्
तदात्मकत्वात्, तत्प्रवृत्तित्वाच्च, घटोर्ध्वग्रीवादित्त्ववत्, तदङ्गन्त्वस्य भवत्सत् भवतीति, भवनञ्चाभावानुविद्धम् ।
प्रत्येकवस्तुस्वरूपप्रतिपत्त्यर्थतदतत्प्रवृत्तिव्यावृत्तिसदसदात्मकः स्वतोऽत्यन्ताविभक्तवृत्तिपर्यनुभवनात्मकत्वादभूतखपुष्पविलक्षणः