________________
द्वादशारनयचक्रे
सद्भूतत्वाच्च, एवमनभ्युपगमे असदेव वा स्यात्, सत्त्वसमवायलभ्यसद्भावत्वात्, कार्यवत्, तस्मान्न सतामपि द्रव्यादीनां सत्करी सत्ता व्यर्थत्वादिति साधूक्तम् ।
२१०
नापि सदसतां सत्करी सत्ता, अभूतत्वात्त्वन्मतेनैव, खपुष्पवत्, या तु त्वयोक्तोपपत्तिः सदसत्त्वाभावे सदसदैकात्म्यानुपपत्तिरिति सा नोपपत्तिः, त्वन्मतेनैव सदसदैकात्म्योपपत्तेरत्यन्ता - विरुद्धत्वात्, सामान्यादिद्रव्यादौ तदतत्सदसद्वत्, यथा सामान्यादीनि स्वात्मना असन्त्यपि भवन्ति, सम्बन्धसद्भावेन च सन्त्यपि न भवन्ति, तस्मादसदभूतत्वादिति साधूक्तं ।
नन्वेवं तदव्यवहृतेः प्रागभावभेदाभाववदभूतत्वमेवेति, अत्रेदं सम्प्रधार्यम्, अथ यदेतदभूतत्वं तत् किं भूतस्य द्रव्यादेः ? अभूतस्य वा? यदि भूतस्य तदेव भूतं वस्त्वात्मना, तदेव चाभूतमव्यवहारात्मनेति सदसत्त्वविरोधो नेति सदसदैकात्म्यापत्तिरेव, अथाभूतत्वमिष्यते ततो द्रव्यादेरभावहेतुर्वाच्यः, केन हेतुना तदभूतं कार्यं स्वकारणेषु समवेतम् ? अहेतुतो भवने हि क्षणिक शून्यतादिव्युत्पत्तिवदभाव एव न चेत् पूर्ववदस्मदुक्तसदसदैकात्म्योपपत्तिरेव प्राप्नोति ।
तिष्ठतु तावत् प्राक् सत्तया सम्बन्धात् कार्यस्य सदसत्त्वम्, यदापि स्वसत्तया सम्बद्धं तदापि सदसत् त्वन्मतेनैव, यत्तत्कार्यं सत्ता सम्बद्धं सदित्यभिधीयते दण्डविशिष्टदेवदत्तवत् न च सत्तया, न हि दण्डसम्बन्धेन देवदत्तोऽसन् सन् क्रियते, सत्ताऽपि न वस्तुसत्तयाऽसती सती क्रियते, आश्रयप्रतिलम्भात्मन्येवाभिव्यज्यते