________________
२०९
सप्तमोऽरः विधिनियमोभयनयः विशेषणेन द्रव्यत्वादिना अविशेषविशेषणवृत्तिमात्रेण सामान्यविशेषेण सम्बध्यते।
तत एतदापन्नं स्वत एव वृत्तं वस्तु द्रव्यादिप्रत्ययत्वादिना सम्बध्यते, तस्मादेव तु न्यायात् स्वसामान्यस्यापि प्रकाशकं तदेव, प्रदीपवद्भूताद्वस्तुनः प्रकाशान्तरनिरपेक्षात्तस्मादेव प्रविभक्तविषयान्वयात्, विचित्रोपभोगक्रियाप्रसिद्धेर्भिन्नेष्वभिन्नव्यवहारप्रसिद्धेश्च न विशेषणसम्बन्धः कल्प्यः, सर्वत्र तु घटत्वादावपि तत्त्वं स्वत एवेति त्वद्वचनादेव प्रतिप्राप्तम्, तदेव च विशेषणस्यापि प्रकाशकमिति स्थितम्। __इदन्तु प्रस्फुटतरं विशेषणसम्बन्धप्रकाशं वस्तु, तेन च वस्तुना नापेक्षितः सामान्येन सह सम्बन्धः, सामान्यमेव वस्तुना सह सम्बन्धमपेक्षत इति तत्सम्बन्धनियमाय तब्यक्ततरं वस्त्वेवार्थान्तर - निरपेक्षं विशेषणानामपि प्रकाशकमिति, अथ वा विशेषणसम्बन्धमन्तरेणापि वस्तुमात्राणां परस्परातिशयोऽस्ति, तेन विशेषणसम्बन्धनियमसिद्धिरिति वदता त्वयैवाभ्युपगतम्, चोद्यपरिहारोऽपि कथं परस्परातिशय इति चेत् कथं प्राक् ...... अतिशयः स्यात् । न, दृष्टान्तात्, यथा परपक्षे सत्त्वरजस्तमसां परस्परातिशयस्तथेहापि स्यात्, सामान्यादिवद्वा ... ........ सत एव स्यादिति, सोऽपि चैवं प्रसिद्धमस्मदुक्तमेव संदर्शयति।
___ अत्र प्रयोगाः न द्रव्यादि अन्याधेयस्वप्रकाशं सत्त्वात्, यत् सत् न तदन्याधेयस्वप्रकाशं नाधेयसत्त्वादि नाप्रतिपूर्णसत्त्वादि दृष्टम्,' सामान्यादिवत्, सात्मकत्वात्, प्रत्येकं सत्त्वात्, स्वभाव