________________
२०८
द्वादशारनयचक्रे
यत्तु प्रत्युच्यते न, कारणसामग्रीविशेषसद्भावात्, यत्तुल्यजातीयावयवसंयोगारब्धावयविद्रव्यकार्य द्रव्यत्वेन सम्बध्यते यत्तु कारणगुणारब्धगुणान्तरं 'तेरारब्धे कार्यद्रव्ये नियमत एव गुणान्तरमारभन्त' इति वचनात् गुणत्वेन सम्बध्यते, यत्पुनः गुरुत्वादिभिः स्वाश्रयसंयोगसहितैर्वा स्वाश्रय आश्रयान्तरे वा पतनकर्मारभ्यते तच्च कर्मत्वेन सम्बध्यत इत्यस्त्यतिशयः, एतनिदर्शनमात्रं सर्वत्र कारणसामण्यनियामकसद्भावात् प्रतिनियतः सामान्यविशेषसम्बन्धो द्रष्टव्य इति ।
__ अनेनैव परिहारवचनेन यत्तदुत्पन्नं कार्यं तत्स्वत एव परस्परतो विशिष्टं विस्फुटीकृतम्, तेनैव विशिष्टेन सत्तादिविशेषण सम्बन्धनकृत्यस्य प्रतिप्रापितत्वात्, तत्र विशेषसद्भावस्तावदाहत्य भेरीमभ्युपगतः तदुपवर्णनद्वारेण वाऽविशेषोऽपि। ____ अशेषविशेषणविनिर्मुक्तमपि न भवतीत्येतदपि त्वयैव तुल्यजातीयावयबसंयोगादिभिन्नत्वेऽप्यविशेषो द्रव्यादीनामित्यनेन भावितं तस्मादस्ति हि ....... नेतरं नेत्रेति, पुनरपि च तद्विजातीयेष्वप्यवादिष्वपि तुल्यजातीयाद्यवयवसंयोगादपि द्रव्यत्वं भावितम् । एतेन पृथिव्यादिभिन्नाप्याद्यवयवसंयोगादिभिन्नत्वेऽपि अविशेषेण द्रव्यत्वमुक्तं।
तुल्यजातिभेदेऽपि चाविशेषविशेषणाविनिर्मुक्तत्वं वस्तुनः द्वयोर्बहुषु चेति वचनात्, जातिकल्पनावच्च स्वत एव प्रकाशते कारणसमवेतद्रव्यादीत्येतस्यार्थस्य प्रदर्शनार्थं यदुक्तं वस्तुमात्रमाविर्भूतमुक्तवन्नियामकतया स्वेनैव महिमा वस्तुनियतत्वात्