________________
सप्तमोऽरः विधिनियमोभयनयः
२०७
समादाता
आश्रयस्यातद्रूपस्य प्रत्ययेनात्मानं लभते न स्वत एव, वाक्प्रकाशावगमितार्थस्य प्रदीपादिप्रकाशनवदिति।
प्रधानमपि चैवं स्याद्भवता परिकल्पिता सत्ता, विश्वरूपोपभोगप्रतिपादनार्थत्वात्, गुणत्रयवत्, यथा सत्त्वरजस्तमोनामकं पुरुषार्थं प्रवर्त्तमान प्रधानमेव, एवं सत्ता प्रधानमेव न ततोऽन्यत्, कार्यमपि च ते जन्मकालात् प्रागपि सदेव प्राप्नोति, अशक्तसदसत्त्वेन व्याप्यमानत्वात्............ सक्रियमाणत्वात्, उत्पन्नमात्रद्रव्यादिवत्, यद्वा न तत् सक्रियते, सद्भूतत्वात्, सत्तादिवत्, न तत्सत्ता सत्तान्तरमपेक्षते, सत्तासम्बन्धरहितत्वेऽपि सत्तात्मकत्वात्, अत्यन्तानुप्रवृत्तसत्तावत्, अनर्थसत्ताऽपि चान्यत्रानाधेया, तत एव, स्वसत्तावदिति।
यदि तत्कारणसमवेतं स्वत एव सन्न भवति सत्तासम्बन्धात् सद्भवति सदेव न, असदपि, यद्येवमिष्यते असदेव तर्हि तत्, स्वतो निरुपाख्यत्वात्, वेदनादि हि निरुपाख्यमपि स्वत एव सामान्यात्मना पररूपेण च सोपाख्यम्, तथाऽव्यपदेश्यत्वात् खपुष्पवैलक्षण्येन, तथाऽविशिष्टत्वादिति, कार्यमपि वा प्राक् सत् एभ्य एव हेतुभ्यः उत्पन्नमात्रद्रव्यादिवत्।
“यदपि च कादिकारकाणां समवायिनाञ्च व्यापारस्य फलमशेषविशेषणविनिर्मुक्तं स्वभावसद्भावमात्रं कारणसमवेतं तदित्यात्मावधारणं कृत्वा स्वयमेव यच्चोदितं वस्तुमात्रस्य निरतिशयत्वात् सत्त्वादिद्रव्यत्वादिविशेषणसम्बन्धनियमानुपपत्तिरितितत्तथैव - वस्तुमात्रस्य निरतिशयत्वात् सत्वादिविशेषण सम्बन्धनियमानुपपत्तिरेव।