SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ द्वादशारनयचक्रे अत एव च नास्य सत्तदिदमसदिति स्वान्वयवृत्तिसत्त्वाव्यतिरेकवृत्तिनिष्कलस्वतोऽवधारितसत्त्वं द्रव्यादि व्याख्यातम्, तस्मात्तदर्थमभिधानप्रत्ययहेतुनाऽन्येन नार्थः, स्वत एव सिद्धप्रयोजनत्वात्, तत्रान्यस्य सदभिधानप्रत्ययहेतोर्द्रव्यादावनवकाशः स्वत एव सिद्धप्रयोजनत्वात्, सत्तासामान्यादिवत्, आकाशादिवद्वा यथा वा पुत्र एवापुत्र उच्यते स्वगतपुत्रत्वसंसिद्धान्वय व्यतिरेकाभिधानप्रत्ययदेवदत्तः पुत्र एव सन्ननपेक्षपुत्रत्वः, अत्र स्वभावसिद्धेरेव द्रव्यादित्वं नेतरसत्त्वादिति सत्ताया निराकरणं कृतम्, द्रव्यत्वाद्यप्येवमेव निराकार्यम्। एतेन सत्सत्करत्वपक्षेऽपि साक्षात्कृतमेव वैयर्थ्यम्, स्वत एव सिद्धत्वात्। यत्त्वनवस्था न दृष्टान्तात् वाक्प्रकाशितघटाद्यर्थक्रियार्थप्रदीपप्रकाशोपादानस्यार्थवत्प्रकाशनावस्थावत्, इहापि द्रव्यादिकार्येण वस्तूभृतिप्रकाशमात्रेण द्रव्यादेरुपयोगक्रिया नास्तीत्यशक्तसदसत्त्वात् विचित्रोपभोगसिद्धयर्थं सत्तासम्बन्धोऽर्थवानेवेति। सोऽप्यनुपपन्नः, अवस्थावदृष्टान्तासत्त्वात्, अनेकान्तत्वात्, एकान्तरूपो हि निश्चितोऽर्थो दृष्टान्तः स्यात् त्ववाहितार्थस्य तु न हि व्यर्थत्वैकान्तानुगतं प्रकाशनम्, इन्द्रियेणानुपलब्धस्य विचित्रोपभोगा -सिद्धेः, तस्यापि बहुप्रभेदोपकरणप्रकाश्यत्वात्, तान्यप्यात्मलब्धि प्रकाश्यानि, साप्युपयोगप्रकाश्या, तस्यापि बाह्योपयोग्यद्रव्योपयोगप्रकाश्यत्वादनवस्था, अतः परं पुनरुक्तं भवति, तस्मात् प्रकाश्यः प्रदीपप्रकाशोऽपि, अतद्रूपभावाधिगम्यत्वात्, प्रस्तुता सत्तापि च
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy