________________
सप्तमोऽरः विधिनियमोभयनयः
२०५
पुत्रीभावपरिणामशून्यत्वात् खपुष्पवत्, यथोक्तं 'अगणिझूसिता अगणिसेविया अगणिपरिणामिता अगणिजीवसरीरेति वत्तब्वं सियत्ति तथाऽन्योऽप्यन्वाह 'अङ्गादङ्गात् सम्भवसि हृदयादभिजायसे'२ इति।
गुणोऽगुण इति गुणभाव एव प्रतिषिध्यते, न गुणसम्बन्धः, स चेष्टः युगपदयुगपद्भाविता, भवनलक्षणद्रव्यत्वात्, सङ्ग्रहवादवद्वा तस्मादहुव्रीहावपि नासत्, सदेव तस्मात् सम्पूर्णनिरतिशयं सदसद्वा।
स्ववचनविरोधादेः सदप्यसत्, सत्तासम्बन्धरहितत्वात्, सत्ता सम्बन्धश्च सदिति लिङ्गात् सदभिधानप्रत्ययदर्शनादनुमीयते । अतः सत्तासम्बन्धात् सद्भवतीत्युक्तं भवति सत्तासम्बन्धेन च भाव्यमानं सद्भवतीति । ततो यच्च भाव्यमानं सद्भवति तदारम्भकेभ्यो भवति, द्रव्यायारन्धद्रव्यान्तरवत्, भाव्यमानभवितृत्वात्, तस्मात्तस्यां अवस्थायामसत् तत् सदिति चब्रुवतः स्वचनविरोधोऽनुमानविरोधश्च
सत्तापि च कारणं भावकत्वात् आरम्भकवत्, सति सत्तान्तराधानमिति चेन, तुल्यत्वात्, एवमपि कारणमेव ते सत्ता, सति सत्तान्तराधायित्वात्, पटसत्ताधायितन्तुसंयोगवत्।
संयोगस्याप्यारम्भकत्वेष्टेः कारणत्वमात्रसाधनाद्वा न दोषः, अथ वा वृत्तसत्त्वातिरिक्तसत्त्वकरत्वात् कारणमेव, तन्त्वादिवत्, तथा च द्रव्यायन्यतमदेव तत्सामान्यम्, तस्मात् सदनित्यं द्रव्यवत् कार्य कारणं सामान्यविशेषवच्च, द्रव्यादिवत्। १. भगवती सूत्रम् श. ५ उ. २ सू. १५ २. कौषीतकि उपनिषद् २-११