________________
२०४
द्वादशारनयचक्रे
त्वन्मतवत् किञ्चित् सत्, समस्तं सदिति? तस्य द्वैविध्यस्यास्मान प्रत्यसिद्धेः, सत्तासम्बन्धरहितत्वमपि सत्तोपपत्तिरहितत्वमेव उक्तवत्।
अत्र केनचित् पृच्छयेत कस्मात् खपुष्पं दलकेसरमकरन्दादिषु कारणेषु न समवैति? इति, वयमत्रोपपत्तिं ब्रूमः, अद्रव्यत्वात् अभूतत्वात् असनिहितत्वात् वन्ध्यापुत्र इव, पुनः पृच्छेत् कश्चित् कस्माञ्चम्पकपुष्पं दलादिषु तु समवैति? इति, सद्रव्यत्वादेरिति ।
तथा च द्रव्यादीनि प्राक् सन्ति, तस्यामवस्थायां सत्तयाऽभिसम्बध्यमानत्वात्, यथोत्पत्त्युत्तरकालं सत्तयाऽभिसम्बध्यमानान्युत्पत्त्यवस्थायां तान्येव, अभूतक्रियागुणव्यपदेशमुत्पत्त्यवस्थमपि कार्यं ततः प्रागपि सत्, सत्तायाः सम्बन्धित्वात् भवनात् आकाशवत्, इदानीमपि वा न सत्तया सम्बध्येत कार्यम्, प्रागसत्त्वात् खपुष्पवत्।
अन्यथाभूतत्वान्नेति चेन्न, अन्यथाभवनेऽपि तदनन्यथाभवनात् प्रत्यक्षतः, मृत्तन्त्वादितद्भावानतिक्रमात् सजातीयासजातीयेतरस्वभावभूतत्वात्, सुचिरादपि तत्तत्त्वाच्च दृढीभूतघटवत्।
यदपि च दृष्टान्तत्वेनोक्तं नास्य पुत्रोऽस्तीत्यपुत्रो न तु पुत्रो न भवतीति प्रतिषिध्यत इति, इदमपि नातिगमितार्थ, अत्रापि हि पुत्रान्तरसम्बन्धो न प्रतिषिध्यतेऽस्य स्वामिपुत्रादेदृष्टत्वात्, नञ् उत्तरपदाभिधेयनिवारणार्थः, तत्पुरुषसमाससम्भवसामर्थ्यात् बहुबीहावपि पुत्रात्मकत्वमेव प्रतिषिध्यते नत्रा, अतव्यत्वात्, स्वयं