________________
सप्तमोऽरः विधिनियमोभयनयः
२०३ तर्कयामि सदसद्वैधर्म्यनिराकरणायैव तु प्राय इयं प्रतिपत्तिर्भवत उभयासम्पूर्णतायां तदेव सञ्चासच्चेति साधर्म्यमेव।।
___ योऽपि चासच्छब्दस्यागुणगुणवत् नास्य सदित्यसदिति बहुव्रीहिसमाश्रयात् सदर्थवत्त्वमेवेति विकल्पः, असदिति सत्तासम्बन्धरहितमित्यर्थः, सोऽप्यनुपपन्नः, कृत्तद्धितान्तरूपार्थविप्रकृष्टान्तरत्वात् कथं सत्ता सत् स्यात् यदभावानास्य सदित्ययं भाव्येत।
अथ नास्य सदिति सत्तापि स्वभावसत्तया सती सा यस्य नास्ति तदप्यसद्व्याधुच्यते गुरुत्वाभावात् गुणागुरुत्वदिति, एतदेव ननु प्रस्तुतं सदादिषडविशेषाभिधानद्वारेण द्रव्यादीनामेव त्रयाणां विकल्पः परस्परतच लक्षणादिना व्याचिख्यासितो भवताम्, तत्र सदादिषडविशेषो द्रव्यादीनामेव न सामान्यादीनामित्युक्त्वा सामान्यादीनां सत्त्वमुच्यमानं स्ववचनविरोधाय, सदा मौनव्रतिनः कोऽस्मीति वचनवत्।
यत्तु सत् मुख्यं समवायिकारणं द्रव्यादेः कार्यस्य, तदस्यास्त्येवेति तत्किमिति मत्त्वोक्तं? ननूक्तं सामान्यं समवायि सत् तदस्य नास्ति तदपेक्षयोक्तमसदिति, तद्धि सदेव न भवत्यावयोरपि मतेन, किं तर्हि युक्तं वक्तुम्? नास्यासत् तदिदमनसदिति, न हि खपुष्पं यस्य नास्ति सोऽसन्नित्युच्यते संस्तु सद्वानियमाद्भवति प्रतिषेधद्वयार्थत्वात्।
ननु द्विविधभावत्वात् सत्तासद्वचनेऽपि न दोष इति, ननु तदेवेदं भवनं विचार्यते किमेकविधमेव निरतिशयमस्मन्मतवत्? उत