________________
२०२
द्वादशारनयचक्रे
प्रतिषिध्यते । अगुणगुणवद्वा नास्य गुणोऽस्तीति गुण एवं सन्नगुण उच्यते तथेहापि । न च तदपि निरात्मकं सत्तासम्बन्धात् वैधपेण शशविषाणवत्.....त्वन्मते दृष्टान्ताभाव इति चेत् सामान्यवद्वा.... सामान्यवदेव सात्मकं न घटादिवत् सात्मकम्, सामान्यादीनां सात्मकत्वमसिद्धमिति चेन्न स्वरूपभिन्नत्वे सत्यभिन्नवाग्बुद्धिव्यवहारविषयत्वात्, विशेषणं सामान्यं सात्मकञ्चेति, अत्राप्युत्तरे बहेव सम्प्रधार्यम्।
अन्यदप्यत्र वक्ष्यामः, अत्यन्तनिरात्मकत्वानभ्युपगमादिति वचनेन सदसत्त्वयोरपि विकल्पवत्त्वं वर्ण्यते किश्चित्सत् समस्तं सदिति, एवमसदपीति, सम्पूर्णनिरतिशयस्वात्मन एव तु सत्त्वात् कुतो विकल्पः सत्त्वे? अस्तु वा विकल्पवत् तत्पुनर्निरूप्यं त्वया।
एतर्हि निरूप्यते एकसत्तासदसदपि, असमर्थगोवत्, एवं तर्हि सामान्यसत्तासत्ताऽव्यक्तिः किञ्चित्सती न सम्पूर्णा सती, एकसद्भावत्वात् यदेकया सत्तया सत् तत् सच्चासच्च दृष्टम्, स्वसत्तावत्, स्वभावसद्भावत्वाद्वा, असमवेतसत्ताकानि द्रव्यादीनि यथा स्वभावसद्भावत्वात् सत् सम्बन्धसत्तयाऽसत् तथा सत्तापि स्यात् सा असर्वगता च व्यक्तिरेव वा, एकजातीयापेतस्वरूपत्वात् घटवत् वक्ष्यमाणदुर्निरूपविकल्पत्वाच्च ।
उभयासम्पूर्णतायां वा तन्निरूप्यमेव किं सदसम्पूर्णता, उतासत्, आहोस्वित् सदसदिति । तत्र यदि तावत्, सत् तत्सन्न भवति, असत्त्वात् खपुष्पवत्, नासत् सत्त्वाद्धटवत्, न सदसत् त्वन्मतेनैव सदसतोर्वैधात् सदसत्ताऽभावाच्च । अहं पुनरेवं