SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ सप्तमोऽरः विधिनियमोभयनयः २०१ ...... __ नन्वगुणगुणवत् स्वभावसद्भावेन सन्नेव भावोऽसन्नित्युच्यते ऽतो नैवासतां सत्करी सत्ता, त्वयैव तर्हि कृतमेवं ब्रुवता एतदस्मदनुष्ठेयम्, अत्र वयं निश्चिन्ताः संवृत्ताः, अपि चैवमपि नैवैतत्, किन्त्वसतामेव सत्तासम्बन्धः स्याद्वा न वेति विचार्यम्। अपि च ननु सः प्राग् विषयसद्विकल्पोपपादनायागुणगुणत्वदृष्टान्तो योऽपि चावयवार्थविकल्पेष्वन्त्यो व्युत्पत्तिविकल्पः सुष्टु व्युत्पाद्य व्यावर्तितः सोऽप्येवमनुपपन्नः। ___ यत्तावदुक्तं नासतां सत्करी सत्ता, शशविषाणादीनां सत्करित्वप्रसङ्गात्, नासावन्येनानभिसम्बन्धात्.......... असाधनत्वम्, प्रतिज्ञाविशेषो वा ..... प्रतिविशिष्टत्वम्, अथ द्रव्यादीनां तदानीमसत्त्वमिति चेत्, तेषामसत्त्वमसिद्धं द्रव्याद्यभ्युपगमे सत्त्वात्, प्रागुत्पत्तेरिति चेत् सिद्धसाधनमेतत् । तदा तेषां सत्तासम्बन्धानभ्युपगमात्, नासता सम्बध्यते सत्ता, विशेषणत्वात्, दण्डवत्, यथा विशेणस्य दण्डादेः सता देवदत्तेन एवं सत्ताया अपि । अथ सम्बध्यते शशविषाणादौ सत्तासम्बन्ध स्तदवस्थः, अथ तव मतमसदपि द्रव्यादि सम्बध्यते सत्ताया एवंस्वरूपत्वात्, तत्प्रतिपाद्यसत्ताया एव हि हेतुभूतायाः सामर्थ्यात् तस्या आधारो भवति सव्यादीति तद्वच्छशविषाणादिरपि तत्सामर्थ्यात्तस्या आधारः स्यात् । मैवम् । शशविषाणादिवदत्यन्तनिरात्मकत्वानभ्युपगमात् कार्यद्रव्यगुणकर्मणाम्, नन्वसदित्युत्तरपदाभिधेयनिवारकत्वात् कथमस्य सात्मकत्वम्? न, अनेकान्तात्, नास्य सदित्यसत्, न स्वयमसत्, यथाऽपुत्रब्राह्मणवत् नास्य पुत्रोऽस्तीत्यपुत्रो न तु पुत्रो न भवतीति
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy