________________
द्वादशारनयचक्रे
खपुष्पवत् कारणानामभावात् कार्यं क समवैतु ? ततः कार्यसमवायिनां खपुष्पान्न कश्चिद्विशेष इति सर्वशून्यतेति सर्वविरोधाः ।
२००
अथोच्येत नित्योत्पन्नत्वात् कार्यद्रव्यगुणकर्मणामेव सत्तासमवायात्मत्वमिति, एवं तर्हि कार्यद्रव्यगुणकर्माण्यपि सत्तास्वरूपत्वादनुपनिपातिस्वरूपत्वाच्चात्माभेदात् केनचित्सम्बन्धेऽसति स्वात्मस्वरूपं स्वात्मन्यादधति, तत्पदार्थत्ववदिति हेतुफलसंबन्धित्वाभावः स्यादिति सत्तादिसम्बन्धात् सन्ति द्रव्यादीनीत्ययुक्तम् ।
ततोऽनुपपन्नविकल्पत्वात् सत्तासमवायात् सत्, द्रव्यत्वसमवायाद्द्रव्याणि, गुणत्वसमवायाद्गुणाः, कर्मत्वसमवायात् कर्माणि, रूपत्वाद्रूपमित्यादिना द्रव्यादीनां लक्षणविरोधाविरोधाss रम्भानारम्भकार्यकारणादिभिश्च सत्तादिभ्यश्च षडविशेषमुखेन विशेषाभिधानं सर्वमयुक्तं कर्त्तुम्, सर्ववाक्यानृतत्ववत् ।
इह प्राक् सत्तासम्बन्धात् सतां वा सत्तासम्बन्धः, असतां वा, सदसतां वा? न तावदसताम्, खपुष्पाविशेषप्रसङ्गात् नापि सतां भूतत्वात्, सत्तावत् प्रकाशितप्रकाशनवैयर्थ्यवत् सताञ्च पुनः सत्तासम्बन्धात् सत्त्वादनवस्थाप्रसङ्गात् प्राक् सत्तासम्बन्धात् तच्च किमात्मकमिति स्वरूपावधारणं कार्यम्, अन्यथाऽसत्त्वात्, नापि सदसताम्, ऐकात्म्यानुपपत्तेः सदसतोर्वैधर्म्यात् घटखपुष्पवत्, उभयदोषप्रसङ्गाच्च – यदसत्तत् खरविषाणाविशिष्टम्, यत्सद्भवति तत्र सत्तासम्बन्धवैयर्थ्यम्, सदसतोर्वैधर्म्यात् कार्ये सदसत्ता नेति च त्वन्मतसिद्धानुपपत्तिरेवायं विकल्प इति ।