________________
सप्तमो विधिनियमोभयम्
यद्यसत् कार्य तर्हि न तदुत्पद्येत, असन्निहितभवितृकत्वात् खपुष्पवत्, खपुष्पमपि वोत्पयेत, असनिहितभवितृकत्वात् कार्यवत्।
खपुष्पं सत्त्वस्याश्रयो नास्तीति चेत्, इतरत्रापि तुल्यत्वात् कार्यस्य मृदोऽसत्त्वात् त्वन्मते पिण्डादेः कार्यसमत्वात्, असतः सत्तासमवायित्वात्। ___ अथाश्रयिसमवायाहतेऽपि सत् कार्यं स्वेनैवास्तित्वेनाश्रयो भवति, एवं तर्हि किं तदतिरिक्तसत्तासम्बन्धकल्पनया? तदनभ्युपगमे कार्यखपुष्पयोराश्रयकृतविशेषाभावो वा।
यद्यसत् कस्मात् खपुष्पमेव नोत्पद्यते घटादि कस्मादुत्पद्यत इति । अयोच्येत कारणवदकारणविशेषादिति, यद्यकारणं नोत्पद्यते तत्पुरुषे वाच्ये, अथ बहुव्रीहिसमाश्रयणं तनोत्पयते तस्याविद्यमानकारणत्वात् खपुष्पवद्धटवद्वा।
एवं तर्हि सर्वासत्त्वप्रसङ्गः परमाण्वादयोऽकारणत्वानोत्पद्यन्ते, अनुत्पन्नत्वानाश्रयः सत्तायाः, ततश्च समवायाभावात्