________________
१९८
द्वादशारनयचक्रे
द्रव्याण्यारब्धानि तैरप्यन्यारन्धद्रव्याणि प्रागभावप्रध्वंसात्मकानि वर्णाद्यात्मकान्येव च गृह्यन्ते, तस्मात्तैर्घटाद्यात्मभूतैर्वर्णादिपर्यवैरशाश्वती रत्नप्रभा, वर्ण एव च पर्यवो यथासम्भवं श्यामादय आरधानारन्धद्रव्यगताः कारंणगुणपूर्वकाचतुर्विधे पार्थिवेष्वेव पाकजाः तैः, एवं गन्धादिभिरपि।
इति विधिनियमविध्यरः षष्ठो नयो नैगमभेदो द्रव्यास्तिकान्तःपाती परिसमाप्तः।
द्रव्यार्थनयविकल्पाः समाप्ताः।
अयं चैष च सविभागविन्यस्तश्चक्रार इवार इति सम्पिण्डथैकस्य त्रिशतभेदस्य संक्षेपेण षड्भेदाः, एषु च पर्यवशन्दो भाववचनः समन्ताद्भवनात् पर्यायशब्दः समन्तागतिवचनः द्रव्यस्य वर्णाद्यात्मना परितो गमनादिति।