________________
१९७
षष्ठोऽरः विधिनियमविधिः खपुष्पवत्, पृथिव्युदकज्वलनपवनगगनकालदिगात्ममनसां द्रव्याणामपीतरेतराभावात्मनाऽसतामेव सत्तातो द्रव्यत्वादन्योऽन्यतश्च तेन तेन प्रकारेणान्यता, अन्यत्व एवेतरेतरासतां भावादिसम्बन्धः, गुणकर्मणोरप्येवमेव, न चास्य भावस्यान्यस्माद्भावता, स्वपरप्रकाशहेतुत्वात् प्रदीपवत्, तस्मात् स्वभावसद्भावेन सत एवासत्त्वं सम्बन्धसद्भावाभावात्, नेतरेतरासत्त्वात्, यथा गुणोऽगुण इति, एवं सामान्यं सामान्यमेव, योऽप्यसौ स्वभावसद्भावः कार्यद्रव्यादीनां यतो भावसम्बन्धादादेयस्तस्मादेवासन्निति न, किन्तर्हि? तन्न भवतीति भवत्येव अभूत्वा भावात् भूत्वा च भावात् सदसद्भावद्वैरूप्यम्, किश्चित्तु परमाण्वाकाशकालदिगात्मनोद्रव्यादि भवदेव भवति स्वसद्भावादेव, सामान्यविशेषेऽप्युभयता कर्मणि च, स्वभावसम्बन्धसद्भावाभ्यां भेदाभेदौ, एवं साधर्म्यवैधाभ्यां षट्पदार्थेषु वैशेषिकमिति। .
नैगमैकदेशत्वात् द्रव्यास्तिकोऽयम्, द्रव्यमपि द्रव्यत्वसामान्यविशेषसम्बन्धात्, जातिः शब्दार्थः, अन्त्यञ्च पदं वाक्यार्थः, स च पूर्वपदज्ञानाहितसंस्कारापेक्षेऽन्त्यपदप्रत्ययः।
- तन्निर्गमसूत्र, 'इमाणं भंते' इत्यादि यावत् 'संठाणपज्जवेहि" इति भेदवचनात्, वर्णादिपर्यवादिषु सङ्गृहीतसमासद्वयत्वात् वर्णः पर्यवः समन्ताद्भवितैकवाक्यभावात् वर्णस्यैव परितो भावाद्गमनाच, वर्णेभ्य एव गुणान्तरं चित्रवर्णः पाकजो वा तदारम्भनियमादेव पृथिव्यादिषु भवति समन्ताद्गच्छति वा घटादीनि वा ' १. जीवा. ३-१-७८