________________
१९६
द्वादशारनयचक्रे न तु भवत्येव भावः सद्व्यगुणकर्मवत् सव्यादिः, सद्भावसामान्येऽपि भावानां प्रतिस्वं स्वभावभेदात् सत्तास्वतत्त्वासमवायात् स्वरूपसत्तायाः सतामपि सामान्यविशेषसमवायानां समत्वात् स्वसद्भावादेव सतामितरेभ्यो विशेषः।
दण्डवत्त्वर्थान्तरभूतसत्तादिसमवायादेव स्वानुरूपा विशेष्ये बुद्धिरनुप्रवर्त्तते न त्वगृहीते विशेषणे, विशेषप्रत्ययस्य गगनादिष्वतत्सम्बन्धिष्वभाववत्।
___ एवमेव ह्युभयस्येवोभयप्राधान्यस्यापि विधिः, अत्यन्तविशेषरूपत्वात् पदार्थषड्भेदानाम् न तु पूर्वनयेष्टः, अस्वातन्त्र्ये कर्तृत्वाभावात्, अस्माभिस्त्वदनुकम्पयाऽभ्युपगतेऽपि कर्तृत्वे द्रव्यस्यैव च प्राधान्यमिति विधानात् क्रियायाः प्राधान्याविधानाद्भावो न भवितुमर्हति।
तथाभूतार्थविषयत्वात् सनिधानस्य तथातथाभवद्भावाभिमुखसनिहितघटादिभवनगेहवत् क्रियया न किञ्चित् प्रयोजनम्, सम्भाव्यमानमपि प्रयोजनमभिव्यक्तिमानं स्यात्, तस्या अपि तद्भवनतन्त्रत्वाद्र्व्यभवनस्यैव प्राधान्यस्योपकारमात्रार्थत्वाव्यक्तेरप्राधान्यम्। -
अयन्तूभयप्रधानविधिः, आरब्धानारन्धद्रव्याणां पार्थिवपरमाणुव्यणुकादीनां भावसम्बन्धाभिव्यङ्ग्याभेदेऽपि सति स्वभावादिभेदानानात्वम्, भावसत्त्वस्यात्यन्तव्यञ्जनस्वातन्त्र्यात्, अन्यथा भूतेः, यद्येवं न स्यानैव स्यात् सत्तासम्बन्धरहितत्वात्