SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽरः विधिनियमविधिः १९५ विशेषान्त्यविशेषेभ्यश्च नित्येभ्योऽनित्यानां कार्यकारणतया चेत्यपवादः, तयोविधिरेष विधिनियमविधिः। यदप्युक्तं त्वया तथाभूतसनिहितवस्तुशक्तिव्यक्तिः क्रिया सर्वप्रभेदनिर्भेदं बीजं द्रव्यमिति च तन्न भवति, क्रिया हि प्रागभूतनिर्वृत्त्या, जगत्प्रलयकाले च का त्वदिष्टव्यापारलक्षणा क्रिया मदिष्टा -दृष्टचोदिताणुगतकर्मण्यसति? न हि सा निर्वृर्तमेव निवर्तयितुं निरर्थकं वा प्रवर्त्तते, सा चानेकद्रव्यतायां सत्यां भवति, अनेकद्रव्यत्वश्चादृष्टचोदिताणुकर्मान्तरेण न भवितुमर्हति, भेदबीजमात्रद्रव्यशक्तिव्यक्तौ वा न कश्चिदुपकारोऽस्त्यस्य जगतः, न चेदेवमिष्यते तदा नित्यैकस्तिमितगगनवदारम्भाभावात् क्रिया निर्विषयैव स्यात्। . आरब्धद्रव्यभूतावपि च द्रव्यादेः कारणकार्यलक्षणारम्भानारम्भभेदादन्यत्वादेव तदभूतेः, सामान्यादीनाञ्च, स्वाश्रयस्य स्वानुरूपप्रत्ययाधानहेतुत्वात्, ततस्त्वदुक्त द्रव्यस्वरूपलक्षणभवनानुपपत्तिरित्युभयस्यापि भवनस्याभावः, किन्तु द्रव्यादिषड्भेदस्य सप्रभेदस्यैव भावः। ___यदपि च तस्य सन्मानं तदपि नात्मनैव, यदुच्यते यदयं भवति स्वयमेव यदनेन भूयत इति, नैष पुनर्भावो भवति, कस्तहि? अन्येनान्येन भूयते, सोऽन्य एवास्य भावः, सत्ता, येन च भूयते सोऽपि चास्य भावः न केवलं सत्तैव, यत्सम्बन्धाद्भवतीति भवति, सापि सत्ता भावः, भावेऽप्युभयता, उत्सर्गात् अपवादात्, सा. उत्सृज्यते नियम्यते च द्विविधो हि भाव इति, स्वभावसम्बन्धिन्या सत्तया द्रव्यगुणकर्मसु सदिति भवति।
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy