________________
१९४
द्वादशारनयचक्रे सोऽत्र द्रष्टव्यः, उत्तरमत्र वक्तुमशक्यम्, यद्येवं मतिः तदोभयवादसिद्धिर्निवारयितुमशक्यत्वात्, उभयोरन्यतरस्य वा निषेधे प्रमाणाभावात्, ज्ञानाभिधानयोः प्रमाणयोः द्विरूपार्थविषयत्वादुभयरूपार्थस्थितिसत्यत्वम्, नन्वेवं तथार्थस्थितिसत्यत्वात् सर्ववादनाथानेकान्तवादाश्रयणं कृतम्।
अनेकान्तवादो हि वादनायकः सर्ववादविरोधाविरोधयो निग्रहानुग्रहसमर्थत्वादरिविजिगीष्वादीनामिवोदासीननृपः, स चेत्थं - स्यादन्यत् स्यादनन्यत् कारणात् कार्यम्, तदतत्समर्थविकल्पत्वात्, एकपुरुषपितृपुत्रादिवदिति सदसद्वायुभयोपनीतहेतुसामर्थ्यादेवानेकान्तसिद्धेः, न च तेन सह कस्यचिद्विरोधः, तस्मात् परित्यक्त -पक्षरागैरनभिनिविष्टैरात्महितगवेषिभिः कुशलैरयमाराध्यः शरणञ्च नयसमूहात्मकत्वात्, यद्यसौ सर्वैराराध्यः शरणञ्च वादानां किमर्थं वादिभिः सह विवदते, दृष्टश्च विवादः, तस्माद्विरोधादित्वाच्छेषवादिवदनाराध्योऽशरणश्चेत्यत्रोच्यते, मम तेन सहाविरोध एव तथापि त्वत्प्रतिपत्त्यैकान्तवस्त्वनुपपत्तेमः।
यत्तद्भूयते येन भूयते द्रव्येण तस्य भवनसामान्यस्योत्सर्जनविधिः प्रवृत्त्यात्मकस्तस्यैवापवाद विधानमित्येषउभयविधिस्त्वयेष्ट एवं न भवति किन्तु सत्ताद्रव्यत्वादिगगनादिद्रव्याणामेषां सर्वव्यापिता अण्वादिसहितानां विभुत्वपरिमण्डलत्वादिगुणसहितानां नित्यत्वञ्चेत्युत्सर्गः।
आरन्धद्रव्यगुणानां कर्मणवानित्यत्वादन्यत्वम्, पुनश्च द्रव्यगुणकर्मणां परस्परतः स्वजातिप्रभेदेभ्यश्च सत्तासमवायसमान्य