________________
षष्ठोऽरः विधिनियमविधिः
१९३
क्रमवत्त्वात् खपुष्पवत्, युगपत्सनिहितसर्वधर्मकं कारणमिष्टम्, नो चेत् संवर्तविवर्तावहाविवाऽऽकाशेऽपि स्यातामुभयोरक्रमतुल्यत्वात्, तस्मादक्रममेवः सर्वम्, कारणत्वादेव भेदेनाभवदप्यक्रमरूपेण भवदपि तत् सदेवेति।
तदप्यसत् अनुमानान्तरविरोधात्, खपुष्पमपि तर्हि सत्स्यात् अनुपलभ्यत्वात् कार्यवत्, कारणश्च स्यात् अनुपलभ्यत्वात् कार्यवत्, कारणत्वे वा तथा भेदेनाभूतत्वात् सत् स्यात् कार्यवत्, अथैवं नेष्यते कारणमसत् कार्यश्च सदिष्टं तथाऽनुपलभ्यत्वात् खपुष्पवदेव ततश्चानु -पादानसिद्धं कारणमसत् सदुपादनसिद्धं कार्यमसच्च सद्भवति, यदि तु कारणानुपादानादित्ववत् कार्यमनुपादानसिद्धं सत्त्वादिति नेष्टं सदिति निश्चयो न व्यावर्त्तते ततस्तद्वैलक्षण्यात् न तर्हि कारणं सदनुपादानादित्वात् खपुष्पवदित्यादि पूर्ववच्चक्रकद्वयप्रवर्त्तनम्।
नन्वेवमसत्कार्यश्चेदुत्पद्यते ततोऽसत्त्वादायत्यामपि नाविर्भवेत् कार्यम्, खपुष्पमप्यायत्यां वा प्रादुर्भवेत्, असत्त्वादिति, तच्च नास्ति, तस्मात् सत्कारणे कार्यमित्येतच्च न, सविशेषणासत्त्वात्, अत्यन्तासत एवासत्त्वादनन्यचन्द्रादित्ववत्, नास्ति घटो गेहे मृत्पिण्डे कपालावस्थायां वेत्यादीन्यसत्त्वानि सविशेषणानि, तेषाश्च सतामिवासतामायत्यामाविर्भावदर्शनात्, अत एव प्रकरणचिन्ता, किं घटादिकार्यमसदाविर्भवेदलातचक्रवत्? उतेतरचक्रवत् सदाविभवेत्? इति। ___एवं तर्हि मयापि शक्यं वक्तुं यत्तदसत्ततोऽन्यत् कार्य" तद्विकल्पासमर्थत्वात्, घटपटवदित्यादि सत्कार्यसाधनप्रपञ्चोऽतीतः