________________
१९२
द्वादशारनयचक्रे तहप्रादुर्भावात्मकत्वात् कारणं सत्, न त्वेवं भवत्यतः कारणं सदुपलभ्यत्वात् कृतवत्, कृतमपि वा कारणवदसत्, उपलभ्यत्वात्, सत्त्वे वा विशेषो वक्तव्यः, अविशेषे वैलक्षण्यानुपपत्तेः, विशेषोन्नयनेऽपि विशेषस्यासदाश्रयत्वात् ततोऽन्यत्वमेवतत्रासत्त्वमेव, अघटपटवदिति।
अर्थतत्साम्यमनिच्छतोऽवश्यं कार्यमेव सदित्यवधारणपक्षः स्यात्, कार्यशब्दसमीपे एवकारप्रयोगात् सत्त्वं कार्य एव नान्यत्रापीति ततश्च कारणमसदिति प्रसक्तम्, तथा च कारण विपरीतानिवृत्तघटादीनां सत्त्वतुल्यं कार्यसत्त्वमितिकार्यासत्त्व निवृत्त्येकान्तत्यागाच्चाभ्युपगमविरोधः नाममात्रेऽविसंवादः ।
अथैवं सत्त्वं नावधार्यते कारणमप्यस्तीतीष्टत्वादिति चेत्, अवैलक्षण्यादिकृताः पूर्वदोषा एव, अयोध्येत सर्वथा सत्त्वात् मृत्पिण्डादीनामेककारणता यथैकस्यैवाहेः संवर्ते विवर्ते च तथा तथा तस्यैवावस्थानात्, यदेव कारणसत्त्वं तदेव कार्यसत्त्वमपि, यदेव कार्यसत्त्वं तदेव कारणसत्त्वमपीति नावधारणकृतो दोषोऽस्ति नापि पूर्वतुल्यत्वापत्तिदोषः, एकत्वात्, अनेकविषयत्वात्तुल्यत्वस्येति।
अत्रोच्यते एवमप्येकत्वाद्विशेषाभावः, ततो यथैव कारणम् अनुपादानसिद्धं सामान्यमन्त विताशेषविशेषसत्त्वात्मकं तथा कार्यमपीति कारणवदेवाक्रमं स्यात्।
अथ मा भूदेष दोष इत्यक्रममेव कार्य कारणे कार्यस्य सनिहितत्वात् यदि क्रमवदह्यादिकारणं स्यान्न स्यात् कारणं