________________
षष्ठोऽरः विधिनियमविधिः
१९१
____ यत्तत् सतोऽन्यत् कार्यम्, तदतुल्यविकल्पत्वात् घटपटवत्, कथमतुल्यविकल्पतेतिचेदुच्यते, अत्र चत्वारो भङ्गाः - कारणं सत् कार्यश्च, कारणं सत् कार्यमसत् कार्यं सत् कारणमसत्, कार्यमसत् कारणश्चेति वा, तेषु द्वौ सम्भवेताम्, कार्यकारणयोर्द्वयोरपि सत्त्वं कार्यसत्त्वमेव च, इतरयोरभ्युपगतप्रतिपक्षत्वाद्वादाभावोऽवसित प्रयोजनत्वात्।
तद्यदि तावदुभयसत्त्वमत्र कारणाविर्भाववत् कार्याविर्भावः, उपलब्धिलक्षणप्राप्तत्वे सति तदात्मकसत्त्वाविशिष्टत्वात्, कारण स्वात्मवत्, अथ न कारणाविर्भाववत्, कार्याविर्भावः, सच्च कार्यमिति निश्चितं ततश्च तद्वैलक्षण्यान्न तर्हि सत् कारणम्, असत्, सद्विलक्षणत्वात् खपुष्पवत्, ननु घटसत्त्वं पटसत्त्वविलक्षणम्, न, इतरेतरासत्त्ववैलक्षण्यात्, अथैवमपि वैलक्षण्ये कारणसत्त्वविनिश्चयो न निवर्त्तते आविर्भावात्मकञ्च तत्, न तनाविर्भावात्मकत्वात् कार्यं सत्, खपुष्पवत्, इतरथा हि नित्यमेवाविर्भवेत्, सत्त्वात् कारणवत्, कारणं वा नित्यं नाविर्भवेत्, अनाविर्भावात्मक सत्त्वाविशिष्टत्वात् कार्यवदिति।
अथ न कार्यानित्यप्रादुर्भाववत् कारणानित्यप्रादुर्भावः सच्च कारणमिति निश्चितं तद्वैलक्षण्यान तर्हि सत् कार्यम्, असत्, सद्विलक्षणत्वात् खपुष्पवत्, इतरः कारणवत्, खपुष्पमपि वा सत्, अनित्यप्रादुर्भावानुपलब्धेः कारणवत्, ननु घटसत्त्वं पटसत्त्वविलक्षणम्, न, इतरेतरासत्त्ववैलक्षण्यात्, अथैवमपि वैलक्षण्ये कार्यसत्त्वविनिश्चयो न निवर्तते प्रादुर्भावात्मकञ्च तत्, न