________________
द्वादशारनयचक्रे
अथ विनाशोत्पादैकाधिकरण्ये दोषदर्शनाद्विकल्पान्तरमाश्रीयतेऽत्राप्युक्तवदेव दोषाः स्थानाभिधानेन तु योज्याः, तथा वा सर्वथा वा विनश्यदवतिष्ठमाने कुतो विनाशः, विनाशे वा कुतोऽवस्थानमिति त एवाधिकृतास्ते वचनादिविरोधाः क्षणिकवादातिशयनादि च पूर्ववत् । उत्पादविनाशपूर्वत्वदोषानपरिहार्यान् प्रत्युच्चार्यानुमत्य च चतुरोऽपि विकल्पान् त्यक्त्वेमौ निर्दोषौ विकल्पावित्याश्रयेत तत्राये तावत्तदेवावतिष्ठते तदेबोत्पद्यत इति विकल्पे पूर्ववद्वयाख्या यावत् क्षणिकवादातिशयनादि, अथ तदेवावतिष्ठते तदेव विनश्यतीति स्थितिपूर्वद्वितीयविकल्पेऽपि व्याख्यानं तदेव योज्यम् ।
१९०
अवतिष्ठते वाऽनन्वयगोचरो व्यतिरेक एव तन्मात्रोपलब्धेश्व सर्वत्रैव तदेवावतिष्ठते तदेव विनश्यतीति व्यपदेशो न सम्भवतीति पूर्ववत्त एव स्ववचनादिविरोधा इति ।
अनेनापि प्रकारेण भवताऽशेषसाधनावयवाः ध्वंस्यन्ते तथाव्यवस्थान विनाशात्, तथाव्यवस्थानाबिनाश एव हि सपक्षमपि तत्स्यात् न विनाशे, अग्निरत्र धूमादिति यथा यथा हि धूमो धूमरूपेण व्यवस्थितो व्यवस्थित एवाग्ग्रावग्नितया तद्वत्तया च प्रदेशे, वन्मतेन तु विविधादर्शने विनाशे त्वयेष्टयाऽवस्थयाऽवश्यं विनंष्टव्यं इत्यवस्थानविपरीतवृत्तित्वादस्य पक्षधर्मत्वमसिद्धमतः प्रदेशस्याप्यन्यथावृत्तत्वादभूतत्वाद्वाऽऽश्रयासिद्धिः विपरीतवृत्तेर्विरुद्धतापि ।
एवं त्रिकादिभङ्गेष्वपि यावद्योगं दोषाः उक्तवदत्र पक्षे, तस्माद्विपर्ययोऽस्त्विति अन्यदुत्पद्यतेऽन्यद्विनश्यतीत्यादि, यथा वस्तुबीजाङ्कुरकर्माद्यात्मधर्माणुस्थूलपृथिव्यादिवत् ।