________________
१८८
द्वादशारनयचक्रे
-
व्यतिरिक्तः, यदेवोत्पद्यते तदेव विनश्यतीति द्रव्यस्वावस्थाविभागं ब्रुवता त्वया न ततोऽन्यः संयोग संयोगी वाऽभ्युपगम्यते, क्रिया स्वावस्थाद्रव्यभेदनिषेधात्, तदभ्युपगम्य व्यक्तिधर्मस्त्यक्तः, तत्त्यागाच्च व्यक्तिरनुत्तरैव, व्यक्तिकारणाभावात्।।
अहेतुतो व्यक्तेरिव वाऽव्यक्तेरपि तद्वत्त्वे नित्यमेव व्यक्तिरव्यक्तिर्वा सर्वस्य स्यात्, परिणामानैवमिति चेन्न, उक्तदोष तुल्यत्वात्, एवं तावदुत्पादविनाशयोः संयोगेनायं विकल्पः सप्रसङ्गपरिहारप्रच!ऽभिहितः, तथा वक्ष्यमाणेषु समानः प्रच! द्रष्टव्यः ।
अथोत्पादविनाशसामानाधिकरण्ये दोषदर्शनाद्विकल्पान्तरमाश्रीयते तदेवोत्पद्यते तदेव नितिष्ठतीति, अत्रापि हि द्वयी गतिः - तेनाप्युत्पत्तिप्रकारेणावतिष्ठमानं यद्वा स्थित्युत्पत्तिविनाशप्रकारैः सर्वथावतिष्ठमानं तदेवोत्पद्यते तदेव नितिष्ठति चेति, यदि तथोत्पादेनैवावतिष्ठमानमुत्पद्यते नितिष्ठतीत्युच्यते तत उत्पादेनैवावस्थितत्वानोत्पद्यत इति उत्पत्तिद्विधाऽपि कुतः? उत्पद्यमाने चावस्थानम्? यद्युत्पद्यते कथमवतिष्ठते? यद्यवतिष्ठते कथमुत्पद्यते? इति स्ववचनादि विरोधाः पूर्ववत्।
व्यापिस्वतत्त्वानुमतांशुतन्तुवत्तु प्रदीर्घद्रव्यस्य पूर्वोत्तरतयास्थित्युत्पत्तिविनाशावस्था व्यापिस्वतत्त्वानुमतबीजामुरत्वादय इत्यस्मिन् प्रकल्पे उत्पत्तिस्थितिसामानाधिकरण्ये न स्ववचनादि विरोधा इत्यत्रोच्यते, एतस्मिन्नपि प्रकल्पे बीजस्यांशूनां वाऽनुत्पादित्वादविनाशित्वाच्च नित्यत्वात् स्थितिरेवेति कुतोऽड्डरो बीजात्,