________________
षष्ठोऽरः विधिनियमविधिः
१८७
अत्रोच्यते, अयमपरिहारः, उक्तोत्तरत्वात्, अर्थतो हि यदेव शिवकोत्पत्तौ शिबकेनैव विनाश इति तदेवाङ्गुरोत्पत्तावडरेणैव विनाश इत्युक्तं ततोऽयं दोषो बलादापयते शिवकेनैवोत्पत्तौ शिवकेनैव विनंष्टव्यमिति, ततोऽभिन्नत्वात्, यथा त्वदुक्तानन्तर घटोत्पादः, एवं त्वनुत्पत्तौ तस्यैवावस्थितस्य नैवोत्पत्तिः, अत्यन्तं भावादन्यत्वात् खपुष्पवत्, अनुत्पन्नस्य च विनाशाभावः खपुष्पवदेव विनाशस्याप्यभावाद्धटादिभवनाभावः, भवनसम्बन्धस्य तद्व्यतिक्रमस्य चाभावात् सर्वमभूतं नास्तीत्येवमाद्यापद्यते।
अयोच्येतैक्य एव भिन्नयोरप्यभेदः, यथा मृत्कुम्भावस्था, रूपादिशिवकादियुगपदयुगपद्भाविनियतभवनानि मृद्रव्यभवनस्यैव भवनभागा अभिव्यज्यन्ते तांश्च भवनभागान् क्रियापि व्यनक्ति नान्यथेति यद्यभिन्नस्यैवावस्थाः स्युः को दोष इति।
अत्रोच्यते नन्वस्माभिरपि नोपपद्यते इत्युक्तमनन्यत्वात् सर्वस्य सर्वात्मकत्वाञ्च, त्वयाऽभ्युपगतानां स्थित्यादीनां द्रव्यस्वावस्थत्वात् तस्मादविरोधादनन्यत्वमासाम्, अनन्यत्वाच्च पूर्वोत्तराभावात् कः केनाभिभूतो येनैक्यमापयेरन्, यत इयमनया क्रिययाऽ भिव्यज्यते, नेयमिति च, अविद्यमानपार्थक्यात्, पृथक् सिद्धानां टैक्यापत्तिः तन्तुपटवत्, ततः कस्यचिद्व्यक्त्यव्यक्ती नोपपद्यते इति कुत उत्पादादिभेदः।
अपि च लोकप्रतीतव्यक्तिधर्मविपरीतत्वादुत्पादायभाव इति ब्रूमः, लोके हि पूर्वव्यक्तिव्यतिरिक्तो व्यञ्जकः प्रसिद्धो न तु तव्या -