________________
१८६
द्वादशारनयचक्रे
शून्यवादता वा, अविनष्टानुत्पन्नास्थितत्वात् खपुष्पवत् ।
ननु पृथिवीद्रव्यत्वाभेदात्तदंशबीजाङ्गुरभेदात् तत्कालौ चोत्पादविनाशौ स्त इति न भेदस्याभेदस्य वा व्याघातः, तस्मात्तदेवोत्पद्यते तदेव विनश्यतीत्यत्रोच्यते, एवं तर्हि इदानीं भेद एवापतितस्तवापि, अश्मसिकतामृल्लोष्टवज्रादिभेदे सति पृथिवी नाम न काचिदन्याऽस्ति, किन्तु पृथिवीत्वजातिमात्रमभिन्नं तद्भेदव्यापि, तच्च द्रव्यमेकमित्यस्य त्वत्पक्षस्य विघातकम्, बीजस्याङ्गुरस्य च नानात्वं बीजाद्विनश्यतोऽन्यागुरस्योत्पद्यमानत्वात्, विनंष्टुरन्य इव देवदत्तायज्ञदत्त उत्पद्यमानः, तस्मान्न तदेवोत्पद्यते तदेव विनश्यति, ततश्च यथा बीजं ब्रीहित्वसामान्याभेदे सत्यगुरात् पृथगेवेष्यते तथा पांश्चादित्वमपीति भेदनिर्भेदद्रव्यनिर्मूलनम्।। ___ अपि च त्वयैव द्रव्यांशाभ्यां बीजाङ्गुराभ्यां भेद इत्यनेन वचनेनापादितं भेदानां बहुत्वं द्रव्यैकत्वविघाति, किश्चैतदनिष्टपरिहारार्थमुत्थितेन ननु पृथिवीद्रव्यत्वाभेदादित्यादिवचनेन पार्थिवत्वं अपि नानवोत्थापितम्, बीजादि भेदकभेदकादन्यत्, भेदकत्वात्, अभेदकमितच, अभेदकत्वात्, यथा द्रव्यक्रिये इति।
ननु घट उत्पद्यमान एव शिवकत्वेनोत्पद्यमानः पिण्डत्वेन विनश्यति पूर्वोत्तरकालयोरपि सद्रव्यपृथिवीमृत्त्वाभेदाद्धटाभेदाद्धट एवेति स एवोत्पद्यते स एव विनश्यति, तस्मात् पिण्डत्वेनोत्पद्यमानः शिवकत्वेन नश्यति, तथा पुनर्घटत्वेन विनश्यत् पटत्वेनोत्पद्यते, शिवकत्वेनेव विनश्यंश्छत्रकत्वेनेति।