________________
षष्ठोऽरः विधिनियमविधिः
१८५ -व्यक्तिं नीयन्त इत्यत्रोच्यते, एवं तर्हि सर्वप्रभेदनिर्भेदत्वमसत्यं द्रव्यस्य, क्रियायाधाक्रियात्वम्, सनिहिततथाभूतवस्तुतत्त्वव्यक्तिकरत्वाभावात् ततधाशेषपक्षध्वंसित्वमनुपपन्नस्वावस्थत्वात्। ____ अथैतच्चेदुभयं नेच्छति भयात् ततोऽविभागावस्थत्वात् द्रव्यमसदापन्नम्, मा भूव्यस्याद्रव्यत्वं क्रियायाधाक्रियात्वमिति द्रव्यमविभागावस्थं तद्वयञ्जिका क्रियेतीष्यते ततो यदेवोत्पद्यते तदेव विनश्यति युगपदयुगपद्भाविपृथिव्यादिभेदाविभागद्रव्यस्वावस्थत्वात्।
देशकालादिभेदाभावादस्त्विति चेद्रुमः, यदि यदेवोत्पद्यते तदेव विनश्यति ततोऽङ्गुरोत्पत्तौ तस्यैव विनाशित्वप्रसङ्गः, बीजोच्छूनमूलादिपूर्वभेदानां पत्रनालायुत्तरभेदानाञ्च विनाशावस्थात्वादङ्गुर एवैक इत्यङ्गुरोत्पत्त्याऽयमङ्गुर एव विनश्यति ततश्च दृष्टेष्टविरुद्धावनुत्पत्त्यविनाशदोषौ स्याताम्, अड्डरोत्पत्तौ तस्यैव विनाशित्वात्, न बीजं विनष्टं नाङ्गुर उत्पन्नः, विनष्ठुरुत्पत्तुश्चाभेदात्।
अस्तु नामानुत्पन्नोऽविनष्टश्च को दोष इति चेदुच्यते नैक एव, किं तर्हिी सर्व एव वचनादिविरोधाः, अङ्गुरपत्रादिनिराकरणादपि च लोकादिविरोधाः।
अनित्यतादोषश्च स च क्षणिकवादं व्यतिलक्ष्य वर्त्तते, अतोऽभ्युपगमात्, तत्र न हि यदेवोत्पद्यते तदेव विनश्यति, किं तर्हि? क्षणोऽस्यास्तीति क्षणिक इत्युत्पादादन्यो विनाशक्षणः, उत्पन्नश्च विनष्टश्चेत्यभ्युपगम्यते जातस्य विनाशात्, इह तु उत्पाद एवं विनाशः क्रियार्थकालरहितद्रव्योत्पादादित्वात्।