________________
षष्ठः विधिनियमविधिः
नन्वेवमुभयमप्यवस्तु, अनुपपन्नस्वावस्थत्वात् खपुष्पवत्, स्वा अवस्थाः स्थित्युत्पत्तिविनाशा द्रव्यस्य वा स्युः क्रियाया वा, ता यदि भावस्य ततो द्रव्यमनवस्थमिति द्रव्यप्रभेदासम्भवः खपुष्पस्येव, ततश्च सर्वप्रभेदनिर्भेदं बीजमिति द्रव्यलक्षणहानिः ।
भाव एव तु स तथाभूत आपद्यते तद्भेदस्य तदात्मकत्वात् मृद्वत् ।
प्रवृत्तिभाववचनात्तु मत्पक्षे प्रवृत्तावेव व्यतिरेकसम्भवः, तस्माद्भावादेव सर्वस्य प्रकृतत्वाद्द्रव्यं भाव इत्येतत्त्यागाद्दूयविभागवचनं व्यर्थम्, ततश्च विभागेन लक्षणाभावात्तयोरभावः खपुष्पवत् तदभावात् क्रिया कुतः? तथाभवनक्रियासन्निधिलक्षणं द्रव्यं प्रवृत्तिसामान्यश्च कुतः ? तथाभवनविनाभूतत्वात् खपुष्पवदेवेति सर्वनिर्मूलता चैवम्, अव्यक्तिरप्यसन्निहितत्वात् खपुष्पवत् ।
अथोच्येत भावस्य स्थित्युत्पत्तिलयाः कल्पनामात्राः सन्निहिततथाभूतबस्तुतत्त्वव्यक्तिद्रव्यमेवोक्तवत्, ताश्च क्रिययाऽभि