________________
पञ्चमोऽरः उभयनयः
१८३
पचति देवदत्त इत्युक्ते गच्छति तिष्ठत्यस्ति शेत इत्यादिक्रियाकलापं निवर्त्य देवदत्तं पचतिशब्दो पचनक्रिययैव सम्बन्धयति, तद्विषयकविज्ञानाधानहेतुत्वात्, अयश्च धर्मो वृतादीनामप्यविशिष्ट इति।
अत्र ब्रूमः वस्तुनः प्रवृत्तेः सर्वप्रवृत्तिविशेषसहिताया एवाभ्यनु -ज्ञातत्वाद्भावितत्वाच्च किमस्माभिर्वाच्यं वृतादीनां पचादीनां वा धातुसंज्ञा प्राप्नोति न प्राप्नोतीति, वैधर्येण सर्वेषां धातूनामस्मदभिहितप्रवृत्तिसामान्यक्रियावचनत्वानतिवृत्तेः। .
योऽसौ मयाऽऽदावुद्दिष्टो विधिनियमात्मोभयनयः स एष निर्दिष्टः, नैगमदेशत्वाद्र्व्यार्थोऽयम्, द्रव्यमपि भावसाधनम्, सैव व्यर्थता, उक्तवत्, पदार्थो द्रव्यक्रिये, वाक्यमाख्यातशब्दः, तदर्थ उक्तोभयभाक्, नयविनिर्गमसूत्रं 'अत्थित्तं अत्थित्ते परिणमति" इति।
उभयनयः पञ्चमोऽरः समाप्तः।
-
१. भगवतीसूत्रम् श १. उ ३. सू ३३