________________
१८०
द्वादशारनयचक्रे
अत्रोच्यते, अविकल्पितैकत्वे यत्नप्रसाधितक्रियार्थान्तरत्व त्यागः, अव्यक्तद्रव्यावस्थात्वात्, यत्तद्रव्यं ततो नान्याऽवस्था तदवयवत्वात्, देवदत्तबालकुमारादिवत्, ततश्च द्रव्यार्थान्तरभूत क्रियापदार्थाभ्युपगमविरोधः, एवमभिधानात्त्वव्युत्पत्तौ व्युत्पत्तौ वोभयथापि स्ववचनादिविरोधः, तत्र तावदव्युत्पत्तौ अवस्थायास्ततोऽन्यत्वं, तत्स्वादिविषयशब्दवाच्यत्वात्, देवदत्ताश्ववत्, यथा देवदत्ताश्च इत्युक्ते देवदत्तस्य स्वमश्वः, सोऽस्य स्वामीति तेन विषयेणाश्वशब्देन तस्य वाच्यत्वात्ततोऽन्यत्वं दृष्टमेवं द्रव्यावस्थेति।
शिलापुत्रकशरीरवनेति चेन, अवस्थाशरीरशब्दप्रयोगानर्थक्यात् अत्रापि शरीरावस्थाक्रियात्वादन्यत्वम्, शिलापुत्रकेण शीर्यते शरारुत्वाच्छरीरमिति शरारुर्भवति तेन शरारुणा भूयत इति द्रव्यक्रियाभिधानं नातिवर्त्तते, तथा च द्रव्यस्यावस्था द्रव्यमवतिष्ठते द्रव्येणावस्थीयत इत्यवस्थानस्य क्रियात्वानतिवृत्तेः, व्युत्पत्तावपि सामासिकपदत्वात् समासस्य च षष्ठीसमासत्वात् षष्ठयाश्च कर्त्तरि विहितत्वात्, सा यद्विषयं द्रव्यस्य कर्तृत्वं ततोऽर्थान्तरभूतां तां तदन्यगतिविचलनप्रतिबन्धात्मिकामवस्थां दर्शयति, आत्मनोऽ क्रियात्वात् क्रियामन्तरेण कर्तुः कर्तृत्वाभावात्, तस्माद्व्युत्पत्तावव्युत्पत्तौ च यदि द्रव्यं ततोऽवस्था यतोऽवस्था ततो द्रव्यमिति विरुध्यते। .
त्वन्मनोरथानुवृत्तेस्तु द्रव्यमानदर्शनाभिमुखीभूयापि बलादेवा -त्याज्याभिमततत्त्वद्रव्यशब्दार्थवशात् पुनरपि द्रव्यादर्थान्तरभूताया गतिस्थित्यादिक्रियाया आपत्तिः, भवति भवनं वा द्रव्यमिति भव्यार्थ