SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ पञ्चमोऽरः उभयनयः १७९ कत्वाद्भवनद्वयाभेदात् कतमत् खं? कतमच्च पुष्पाणां विकसनमन्यदिति देवदत्तगमनभवनद्वयत्ववत्तदपि, एवञ्च गमनस्थानादिक्रम भाविनीनामपि क्रियाणां सततसम्प्रवृत्तितादात्म्यानतिक्रमादेक एव पूर्वापरीभूतो भावः प्रवृत्तिरित्युच्यते, प्रकर्षेण वर्त्तनात् स च प्रकर्षः सर्वप्रभेदानुभवनरूपः, स एव चान्तर्भावितस्वप्रभेदत्वात् प्रवृत्तिविशेष इत्युच्यते, न त्वदिष्टकारकाणां प्रवृत्तिविशेषः सामान्यप्रवृत्तेर्भिन्नः कश्चित् भुजिविशेषवत्। . __ यथा भुजिरेवाशनपानादिना द्रव्यक्षेत्रकालभावभेदेन प्रकार मात्रं भियते, न हि तेषु कश्चिदभुजिरक्रिया वा, सर्वोऽप्यसौ भुजिरेव, तथा सामान्यप्रवृत्तिरेव प्रवृत्तिविशेषः, अस्त्यर्थस्य सर्वगतिस्थित्यादिभेदात्मकत्वात्, एवं गतिस्थित्योरस्तियात्यो, सर्वैव चासौ प्रकारमात्रभिन्नसामान्यभवनलक्षणक्रियैव भुजिसामान्य मात्रप्रकारभिन्नभुजिविशेषवत्। ____एवञ्च भुजिगतिस्थितिपच्यादीनामपि तथा तथा सर्वभावव्यापिता भाषतिजानातिश्वेतत्यादीनामपि पूर्वोत्तरव्यक्त्यव्यक्तिभवनैकत्वादेव च, पूर्वमभाषमाणो गच्छन् तिष्ठन्नुदासीनो वा पवाभाषते, तथा पश्यति जानातीच्छति द्वेष्टि प्रयतते स्मरतीत्यादिषु तुल्यश्चर्चः। ___ यदप्यादिनैगमनयदर्शनमनवबुध्य पूर्वनयनिपातिस्थितिस्वरूपनिरूपणं क्रियते, सा तु द्रव्यावस्थाविशेषो गतिवदिति, यथा. गतिर्द्रव्यस्यावस्थाविशेषो बालकुमारादिवव्यादनन्या तथा स्थितिरिति गतिस्थितिवञ्च सर्वक्रिया इति।
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy