________________
१७८
द्वादशारनयचक्रे
स्थित्या विरोधवत् खपुष्पादिना गत्यभावेनापि विरोधस्तत्र तद्विरोधित्वात्तदविनाभावात्, खपुष्पादेर्वा भावत्वमेव स्यात् गतिविरोधित्वात् स्थितिवत्, एवं सति कुत एतद्भावविषयमेव, अभावविषयमेवैतदिति कुतः? इति।
___ अत्र ब्रमो यद्यभावोऽपि भावेनाभावेन वा भावो विरुध्यते तावुभौ भावावेव तर्हि, विरोधित्वात् यत्किञ्चिद्वद्देशतः कालतो वा, गत्यभावमात्रविषयत्वे चानुपपद्यमानस्थितिर्गतिनिवृत्तिरिति स्यात् तथा च कल्प्यमानायामनुपपद्यमानस्थितौ गतिस्थित्यायेकभवना विनाभूतद्रव्यविनाशविषयं स्थानमित्यभिधानं स्यात्, न चैवं द्रव्यस्य कूटस्थनित्यत्वाद्भवितुमर्हति, तस्मादेव च गतिनिवृत्तिः स्थितिनाभावः खपुष्पादिश्व, तस्माद्गत्यभावलक्षितभावविशेषस्थित्यविना भाव्येव द्रव्यमिति।
अभाव इति च भावादन्यो भावविशेषः, अब्राह्मणक्षत्रियादि -वत्, एवं खपुष्पाद्यसत्त्ववाचिशब्दानां भावार्थत्वम् वक्ष्यते चास्य उदाहरणम्।
यथा तिष्ठति पचतीत्यन्यथाभवनं प्रवृत्तिसामान्यं भवनं नाति -वर्त्तते तथा विनश्यति प्रध्वंसते नितिष्ठतीत्यादयोऽपि, येऽप्यत्यन्ता -भावाभिमताः खपुष्पादिशब्दवाच्यास्तेषामपि न तु तथाऽभवनं किन्तु भवनमेव, यथाऽगतिस्थितिः गतेरेव प्रकारान्तरता, सति नियतत्वात् प्रकाराणाम्। __खपुष्पस्य च समवायरूपेणानभिव्यक्तिः, अशोककुसुमादि प्रकारेणाभिव्यक्तिरिति प्रकारत्वानतिवृत्तेन॒व्यक्रिययोश्च सर्वात्म