SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ १७७ पञ्चमोऽर: उभयनयः योऽप्यभावाभिमतो विनाशो विरोधिभावप्रादुर्भावे भावान्तर निवृत्तिरितीष्टः सा च भावान्तरानभिव्यक्तिस्तस्य भावान्तरस्य भाव एव, विरोधिभावप्रादुर्भावत्वादेव, यथा जागरणेन स्वप्नो निवर्त्यतेऽनभिव्यक्तिं नीयत इत्युच्यते तथा स्वप्रेन जागरणम्, अन्यतराप - नयनेनान्यतरभवनात् सर्पस्फटाटोपकुण्डलभवनवत्, न हि क्रियान्तरादन्यत्रीयते न वाऽन्यज्जायतेऽपूर्वमिह किश्चित्, एवमिहापि च गतिभवनं स्थितिनिवृत्तिः स्थितिभवनमेव गतिनिवृत्तिरिति । स्यादेतत् यथा तु भुक्तिक्रियाप्रवृत्तिस्तृप्तिफलावसाना, प्रयोजनाभावे कारकानभिसम्बन्धाद्भुजेः निवृत्तिर्न क्रियान्तर बाधनात् तथैव तदपि स्यात्, अत्रोच्यते अत्रापि तु मा मंस्था भुजिनिवृत्तिरभाव एव, किं तर्हि? फलं क्रियान्तरम्, बुभुक्षां हि बाधित्वा भुक्तिक्रियाप्रदुर्भावःभुक्तिं बाधित्वा तृप्तिक्रियाप्रादुर्भाव इत्येवं क्रियाचक्रकान्येतानि, तद्वन्नाभावो गतिनिवृत्तिः भाव एव स्थितिरिति। ___ यदि स्थिति म न भावस्तीवस्तुकत्वे विवक्षाशब्दयोप्रवृत्तिरित्यभिधानाभावः, अर्थाभावात्, काकवासितादिवदनर्थकं वा तत्स्यात्, अथ द्रव्यमानं स्थितिर्गतावपि स्यात्, उभयत्र द्रव्यस्य सत्त्वाद्विशेषाभावाच, यतस्तु खलु विरोधाविरोधात् भाव एव गतिस्थिती द्रव्यवत्, अत एव द्रव्यभवनादनन्यैव सती भवनान्यत्व एव गतिविरोधिनी स्थितिरिति। स्यान्मतं विरोधित्वादित्यनैकान्तिकमभावप्रसङ्गात्, गतेरभावो गत्या विरुद्धयते प्रकाशाभावेनेव तमसा प्रकाशः त्वन्मतेनेव,
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy