SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १७६ द्वादशारनयचक्रे एव कर्त्ता कुम्भकारोऽस्य करणेन दण्डादिना जलाद्याहरणाय मृदाहृत्य तच्छालायां घटं निर्वर्त्तयति, मालवनगरे सप्तवर्षशतानि यावत् स एव घट आर्द्रादिसामिशुष्कनवयुवाद्यन्यथाभवनेऽपि तथातथाभवति तत्राम एव घटो वर्षं न दर्श्यते सङ्गोष्यते च गोदोहं वा तडागादौ, तथैवापरस्य क्षणमप्यनवस्थानमुदके प्रक्षिप्तस्येति, प्रवृत्ति विशेषत्वेनाभूतत्वाद्यसिद्धतापि चैवमुक्तैव । अगत्यादित्वाच्च नासत्त्वं हेत्वसिद्धेरेवोक्तवद्गत्यादिस्वरूपत्वात् सततभवनस्य, नन्वगमनस्थानञ्चाकाशं भवत्येव, तत्र किमगत्यादित्वादसत् स्यात् खपुष्पवत् ? उताकाशवत् सत् स्यादिति सन्देहहेतुता । नित्यस्थितत्वादाकाशस्य नेति चेदुच्यते, अस्याप्यस्थानत्वमेव, ष्ठागतिनिवर्त्तनबदस्थानमिति च स्थानादन्यद्गमनाद्युच्यते, न स्थानस्यात्यन्ताभाव एव, तस्मादाकाशमप्यस्थानगमनं सच्च, गत्य भावोऽप्रवृत्तिर्गतिनिवृत्तिरिति चेत् अथ निरुपाख्यमेवत्वत्परि कल्पितगत्यभावमात्रस्थानं प्राप्नोति, अभावत्वात् अभावत्वश्चास्या प्रवृत्तत्वात् खपुष्पवत्, आकाशादि च प्रवृत्तं स्थानवदस्थानचेति वक्ष्यामः । गतिविशेषणसामर्थ्यादिति चेत् तदेवेदमस्मदिष्टं गत्यभावस्य स्थानस्य सत्त्वं सिद्धम्, स्थित्यभावस्य गमनस्य सत्त्ववदिति गतिविशेषणसामर्थ्यापादितस्थित्याद्युत्तरभावसत्यत्वादेव सर्वात्मक गतिस्थित्यादिभवनतत्त्वमवलम्ब्य तदपरित्यागेन तत्स्वाभाव्यान्नि रुच्यते भवनं भाव इति ।
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy