SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ पञ्चमोऽरः उभयनयः १७५ कारकान्तरानपेक्षत्वेन विशेषाव्यापित्वान प्रवृत्तिसामान्यं क्रिया लोकव्यवहारानङ्गत्वात्, भावश्च क्रिया द्रव्यश्चेति युदुच्यते तत्र क्रियायाः फलोद्देशकारकसम्बन्धाभावात् कुतः क्रियात्वम् गच्छत्या -दिव्यापिरूपता वा? प्रवृत्तिविशेषत्वेनाभूतत्वात्, कारकवत्, वैधर्येण तद्भेदवत्। तथा च द्रव्यं क्रिया च द्वौ भावाविति द्रव्यस्य द्वितीयो भावः क्रियेत्येतदपि च नोपपद्यते, तस्याः क्रियाया असत्त्वात् खपुष्पवत्, असत्त्वमद्रव्यत्वे सत्यगत्यादित्वात् खपुष्पवत् अगत्यादित्वञ्च तदव्यापित्वादिति। अत्रोच्यते अभ्युपगता तावदस्मदभिमतवत् सर्वभावविषया प्रवृत्तिर्भावानामात्मेति नहीह कश्चित्स्वात्मनि मुहूर्त्तमप्यवतिष्ठते वर्द्धते यावदनेन वर्द्धितव्यमपायेन वा युज्यत इति ब्रुवता, स चाभ्युपगमोऽस्मन्मतसाम्यात् प्रवृत्तिसामान्यक्रियात्वं समर्थयति फलान्तरहेतुहेतुभावाविभक्तवृत्तिः सर्वभावेष्वित्युक्तेः, नहीह कश्चित् स्वात्मनीति वचनात्। यदपि चोक्तं केनचित् फलोद्देशेन प्रवृत्तिविशेषः कारकाणामिति, एतेनाफि, वचनेन सामान्यप्रवृत्तेरेव क्रियात्वमुक्तम्, अनन्तरोक्तविशेषद्वयसन्निधानात् प्रवृत्तिविशेषात्मिकापि सैव, यदपि चोक्तं विशेषास्तूपजायमाना इत्यादि यावन प्रवृत्तिसामान्यं लोकव्यवहारानङ्गत्वादिति, अत्रोच्यते इहापि समानकल्पत्वात्, यथा च विशेषा उपजायमानाः पच्यादय ओदनादिफलनिर्वृत्तौ कारकान्तराण्यपेक्षन्ते तथा मृद्भवनमपि घटफलनिवृत्तौ कारकान्तराण्यपेक्षत
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy