SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १७४ द्वादशारनयचक्रे प्रविशशब्दश्रवणात् सुषिरं गृहादि कर्मपदमत्रेति पिण्डीमिति च कर्मपदश्रवणात्तयोग्यभक्षिक्रियाकर्तृकर्मकमिति । तथा गच्छतीति च तिपोपात्त एव कर्ता, 'लः कर्मणि च'' इति । कर्तरि विहितलकारोद्देशत्वात्तिपः, स च देवदत्त एव विशिष्टः, विशिष्टकर्तृविषयगमनविवक्षितत्वात् तच्छन्दव्यवस्थाप्यस्वरूपत्वात् वा गच्छतिः स्वांशोपात्तार्थविषयक एव, वक्तुर्विवक्षायामन्यथोक्त्यानर्थक्यात्, अर्थप्रकरणायापादनश्च, श्रोत्राप्यश्रुतोऽपि गृह्यते स इति गच्छतीत्युक्ते, अन्ते च नामः कर्तृत्वप्रतिपत्तिरिति। अनया च शब्दार्थगतिभावनया लोके दृष्टया भवनमेवेदमेकरूपं देवदत्तभेदं गतिभेदं स्थितिभेदं वृत्त्यवृत्तिहसनकथनादिभेदं वा भवतीति सर्वत्र व्यक्तेर्भवति तेन तथा तथा भूयत इति। ननु कारकाणां प्रवृत्तिविशेषः क्रियेत्येतज्ज्यायः क्रियालक्षणम्, न सततसम्प्रवृत्तिमात्रम्, सर्वत्र प्रवृत्तिसम्भवेऽपि केनचित् फलोद्देशेन कारकवत्याः क्रियायाः पचिपठिगम्यादेः परिग्रहार्थं विशेषग्रहणम्, प्रवृत्तिमात्रपरिग्रहे तु सर्वभावेषु हि प्रवृत्तिरस्तीति सहभाविभिरसहभाविभिर्विशेषैः प्रत्याश्रयं सहिता प्रचयापचयफला सा तस्याः सर्ववस्तुनि वसन्त्या मुहूर्त्तमप्यनवस्थानात् किं फलं लौकिकं स्यात्? विशेषास्तूपजायमानाः पच्यादय ओदनादिफलान्तरहेतव स्वाश्रयाः कारकान्तराण्यपेक्षन्ते, यथा विक्लेदः तण्डुलाश्रयः काष्ठादीन्यपेक्षते, तत्र या प्रवृत्तिः भवनरूपा सा १. पाणिनि. अ. ३ पा. ४ सू. ९६
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy