SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ पञ्चमोऽरः उभयनयः १८१ - त्वात् तत्र प्रकृतिप्रत्ययार्थव्युत्पत्तेर्द्रव्यक्रिययोः सिद्धि:, यद्भूयते सा क्रिया यद्भवति तद्द्रव्यमिति साध्यसाधनभेदात् । यत्पुनरेतदुक्तमविशिष्टदेशसंयोगो वा स्थितिरिति लक्षणं तत्र युक्तं वाशब्दवर्ज्यम्, विकल्पार्थासम्भवात् द्वाभ्यामविरोधात् । यदपि च द्वितीयं विशेषग्रहणप्रयोजनमभिधीयते सर्वदा सर्व भावानां प्रवृत्तिसमन्वयात् देवदत्त इति नाप्रवृत्तिकम् सप्रवृत्तिकमेव, पचत्यादिवद्देवदत्तादयोऽपि शब्दाः क्रियावचनाः, तस्मात् क्रियावचनो धातुरिति धातुसंज्ञास्तेऽपि स्युः, विशेषग्रहणसामर्थ्यात् पुनः देवदत्तादयो विशेषा न भवन्तीति निवर्त्यन्ते, सर्वभेद सम्बन्धानुगुण्यात्तु प्रवृत्तिसामान्यमेवेदं भवनवत् सत्यपि भवद्भवन भावविशेषे शब्दस्याविशेषार्थत्वात् न क्रियेति । इदमपि प्रयोजनतुल्यदोषानुबन्धञ्च । त्यक्तद्रव्यार्थोत्थानम्, प्रत्याख्यातविशेषग्रहण यथा तत्र प्रवृत्तिसामान्यनिवृत्त्यर्थे विशेषग्रहणे प्रवर्त्तत ईहते चेष्टत इत्यादीनां धातुसंज्ञा न प्राप्नोति क्रियावचनानामेव धातुत्वात्तेषाञ्चाक्रियात्वात् तथेहापि देवदत्तादिधातुत्वनिवृत्त्यर्थे विशेग्रहणे वृतादीनां धातुसंज्ञा नैव प्राप्नोति, अक्रियावचनत्वाद्देवदत्तवत् स वा क्रिया स्यात् सर्वभेदसम्बन्धानुगुणत्वाद्धृतादिवत् अनिष्टश्चैतदिति । प्रवृत्तिसामान्यनिवृत्त्यर्थे देवदत्तादिद्रव्यनिवृत्त्यर्थे च विशेषग्रहणे द्विधाऽप्यस्वशब्दोपादान साध्यभावादि लक्षणमुक्तिवचनश्वानर्थकं स्यात्, द्वयोरपि क्रियात्वात् ।
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy