SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ पश्चमोऽरः उभयनयः १७१ - वृत्त्यभावः, देवदत्तस्य वा गमनकालेऽपि भावे सततमवृत्तिर्वा स्यादिति, एवं स्थानाभावादपि तथेति। तथा गमनात्मकत्वादस्य देवदत्त एवास्य वृत्तिनिमित्तमिति यावद्देवदत्तं वृत्तिप्रसङ्गः, तदात्मत्वात्तत्कालवत्, तस्य गतिपरमार्थत्वावस्थानाच, स्थित्यात्मकत्वाद्वाऽस्य गच्छत्यपि देवदत्ते यज्ञदत्तावृत्तिरेव सदा स्यात्, स्थानकालवत्, एवं तावद्देवदत्तगतिस्थितिविषययज्ञदत्तवृत्त्यवृत्तिविचारद्वारेण दोषा उक्ताः । इदानीं यज्ञदत्तवृत्त्यवृत्तिविषयोऽपि विचारस्तथैव कर्त्तव्यः, अत्रापि यदि द्रव्यपरमार्थवदित्यादिग्रन्थो यावद्वृत्त्यवृत्ती यज्ञदत्तशब्दोच्चारणेन यथा सम्भवं योज्यः, प्रकारान्तरेण तु यज्ञदत्तवस्तुस्वरूपववृत्त्यवृत्ति क्रिययोः तदव्यतिरिक्तत्वात् देवदत्तयानस्थानयोरपि तदव्यतिरेकायावद्देवदत्तगमनस्थानश्च वृत्तिरेवावृत्तिरेव वा स्यात्, विरोधिनः क्रियान्तरस्याभावात् पूर्ववत्। ___ तदतद्भवनाविच्छेदात्मकप्रवृत्तिनित्यत्वस्याकूटस्थत्वाद्भवनमेवेदं गतिवृत्तिस्थित्यादि, सततसंप्रवृत्तिरूपभवनात्मकत्वादतो द्रव्यं क्रिया चोभयं नित्यं भावः। “तस्माद्भेदज्ञानव्यवहारौ तु शब्दभेदद्रव्यप्रवृत्तितत्त्वानुरूप्यात्, शक्तिमतो द्रव्यस्य शक्तयो युगपद्भाविन्यो रूपरसादयः क्रिया एव, गमनस्थानादिक्रियास्तु क्रमभाविन्यः, विवक्षापि च तासां शक्तीनां यथानुरूपं प्रतिविषयनियतप्रत्यायनवृत्तित्वात्, रूपादिद्रव्यशक्तिप्रवृत्तिभेदनियतेन्द्रियग्राह्यत्ववत्, नियतप्रवृत्तिविशिष्टवस्तुभागाभि-. निवेशिभिरभिधानः सर्वस्य वस्तुरूपस्याभिधातुमयोग्यत्वात्, यथा
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy