SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १७२ द्वादशारनयचक्रे देवदत्तो गच्छतीत्यादी देवदत्तशब्दो गत्यादीन् नोपादत्ते न वा व्युदस्यति तथाssख्यातमपि देवदत्तादीन् नोपादत्ते न वा व्युदस्यति क्रियांशविषयनियतशक्तित्वात्, तदेवं द्रव्यशक्त्यंशनियतशब्दप्रवृत्त्यनुपात्ययं भेदप्रत्ययः । तथैव गतिस्थितिवृत्त्यवृत्त्यादिभेदव्यवहाराः, सर्वभेदपर्यनुभवार्थत्वान्नित्यप्रवृत्तेः, याऽसौसततसम्प्रवृत्तिः सा सर्वान् गमनादीन् भावभेदान् पर्यनुभावयामि द्रव्यमिति प्रवर्त्तते, यदि तान्नानुभवेत् ततो न ते स्युः तेनापर्यनुभूयमानत्वात् खपुष्पवत्, सर्वप्रभेदनिर्भेदं बीजं द्रव्यमिष्यते तद्वा द्रव्यं न स्यात् भेदापर्यनुभवनात् खपुष्पवत् । देवदत्तवस्तुना शब्देनानुपादीयमानापि हि गतिरुपात्तैव, नियतभावात् तदात्मत्वादिति विशेषहेतोच, यद्यदात्मकं तेन तदुपात्तमग्निनेवौष्ण्यम् तथा देवदत्तेन गतिरिति, गच्छतिशब्देन च देवदत्त उपात्तः, देवदत्ताभिसम्बन्धात् शब्देन चेदर्थ उपात्तोऽर्थेन देवदत्तार्थ उपात्त एव तदात्मत्वात्, तथा शब्देऽप्येष विधिः, उक्तवदुभयवस्तुत्वात्। परमार्थतस्तु अर्थनियतत्वात्तु वचसः देवदत्तशब्देन गत्यादिनानुपात्तम्, तद्भवनार्थत्वात् देवदत्तशब्दस्येति गृहाण, देवदत्तशब्दो हि द्वितीयादिविनाभूतः केवले कर्त्तर्येव प्रयुज्यते कर्त्ता च क्रियायाः साधनत्वात् क्रियामन्तरेण न भवति, तत्र स्वयमसौ कर्त्ता तेन तेन प्रकारेण वर्त्तमानः, तथा शब्दोऽपि तत्तदर्थवाची यथाहुरन्ततः 'अस्तिर्भवन्तीपरः प्रथमपुरुषोऽप्रयुज्यमानोऽप्यस्तीति' स एष
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy