SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १७० द्वादशारनयचक्रे तृणं कटो भवति, कर्म विभागो भवतीत्येतदुच्यते? ननूक्तं द्रव्यं क्रिया च द्वयमेव सर्वमिदमिति, तस्य भूतता व्यतिक्रमः। एवञ्च भावक्रियाश्रयोऽयं कारकाणां कर्मादिभावः न नियतरूपः, न हि किश्चिज्जातिविशेषयोगात् नियतम्, किं तहनियतशक्तिविषयम् तदेव हि द्रव्यमन्यया क्रियया कर्म भवति, अन्यया करणमन्ययाऽधिकरणमित्यादि, तस्मात् सर्वप्रभेदनिर्भेदं बीजं वस्तु द्रव्यं तत्त्वम्, तद्भेदिभवनव्यक्तिक्रिया। यदि द्रव्यवत् क्रियापि वस्तुनस्तत्त्वं स्यात् ततस्तया विना नैव स्यात् तत्त्वात्तदात्मत्वात्तत्स्वरूपत्वात् न तत्तेन विना भवति देवदत्तवालादिवत्, घटरूपादिवत्, दृष्टश्चैतद्गमनादिक्रियया विनापि देवदत्ताख्यं वस्तु, अन्तरेणापि तु क्रियां भवत्येव वस्तु दोषादर्शनात् ततोऽन्यत्, तदन्तरेणापि भावात् यद्यदन्तरेणापि भवति तत्ततोऽन्यत् घटपटवत्। दृश्यते हि देवदत्ते गच्छति वृत्तिं करोति यज्ञदत्त इति, अत्र यज्ञदत्तस्य वृत्तिकारणं गमनं देवदत्तात्यवस्तुनो द्रव्यपरमार्थः तथा क्रियापि स्यात्, गमनवत्क्रियात्वात् स्थानमपि परमार्थ इति प्रागेव स्थानक्रियया गमनविरोधिन्या यदि देवदत्तोऽवरुद्धः स्यात्ततश्च तस्य गमनं नैव स्यात्, देवदत्तत्वावरुद्धदेशे यज्ञदत्तत्ववत्, गमनक्रिया परमार्थदेवदत्तस्य वा स्थानं नैव स्यात्कदाचिदपि, गमनेनावरुद्धत्वात्, देवदत्तत्वावरुद्धे यज्ञदत्तत्ववदेवेति यानस्थानयोरभावाद्यज्ञदत्तस्य वृत्त्यवृत्ती स्याताम्, यानाभावात्तावत् पूर्ववद्वृत्तेर्यज्ञदत्त
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy