SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ पञ्चमोऽरः उभयनयः १६९ न चैकस्मिन् व्यतिक्रमाव्यतिक्रमौ युगपद्भवतो विरोधात् तस्मादेतदनुमीयते - देवदत्ते द्रव्ये कटस्य कर्तरि कर्मणि वा कर्त्तरि चलने वीरणानां कटे वा कर्मणि करणलक्षणया प्रवृत्त्या तदतद्भवनस्वरूपया द्विरूपतया भवितव्यमविच्छेदेन। ___यथा देशान्तरसंयोगविभागफलं कर्म गमनं गन्तुः पदार्थान्तरम्, तयोः तत्कारणस्य च कर्मणो यावद्रव्यभावाभावात् पदार्थान्तरतायां सत्यां गन्तुर्गमनेन सम्बन्धः गच्छति देवदत्त इति, व्यतिलहितगमनश्च गत इत्युच्यते, तथा गमनायपि करणसम्बन्धमन्तरेण न भवतीति क्रिया सिद्धयति अतो भिन्नं स्वतत्त्वात्, यदि स्वतत्त्वस्याश्रयो न स्यात् कर्मेति न स्यात्, क्रियमाणाद्धि तत्कर्म करणव्यतिक्रमे च कृतमिति न स्यात्, तथाभवद्वास्वसम्बन्धव्यतिक्रममन्तरेण कृतमित्येतं व्यपदेशं न जनयेत् करणसम्बन्धाभावात्, आकाशादिवत् तथा च तद्भवकर्मसत्त्वात् करणसम्बन्धाच्च सदसत्कारणमिति नित्यं स्यात्, सदकारणवनित्यमिति नित्यलक्षण योगात्। ___ यथा च कर्म क्रियया विना न भवति तथा करणमपि भवनव्यक्तिमन्तरेण नैव भवेत् तथा भवनसम्बन्धव्यतिक्रममन्तरेण भूतमिति न स्यात् ततश्च प्रागादिनिर्विशेषणः नास्त्यभाव इत्यविशेषेणैकात्यन्ताभाव एव स्यात्, न भवेदेव सर्वम्, खपुष्पवत् असत्कारणत्वाद्वा अभूतभवनसम्बन्धव्यतिक्रमत्वात्। ___ व्यतिक्रमश्च भवति तृणकर्मादौ कटविभागादिभवनभूततायां, तृणं कटो भवति गमनकर्म विभागो भवति संयोगवान्येनेति कथं
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy