________________
द्वादशारनयचक्रे
भावस्य द्रव्यात् पृथक्त्वासिद्धिवत् गन्तुर्गमनपृथक्त्वासिद्धेर्हि दृष्टान्तः साध्यैकदेश इति चेदुच्यते देवदत्तगमनयोः त्रैकाल्यात्रैकाल्य -भेदसिद्धेः द्रव्यभावयोरपि तद्वत्, युगपदयुगपत्तत्त्वखघटवत् ।
१६८
अथ मतं द्रव्यार्थभेदत्वादस्य नयस्य द्रव्यार्थस्य च नित्यत्वात् कथमिदं प्रागभावप्रध्वंसाभावात्मकं त्रैकाल्यम्, पूर्वापरकालतुल्यत्वात् द्रव्यार्थाभ्युपगमात् द्रव्यस्यैव वाऽत्रैकाल्याभ्युपगमे भावस्य द्रव्यार्थत्याग इत्यत्रोच्यते, प्रवृत्तिनित्यत्वात् नात्रापि द्रव्यार्थ - त्यागः, वस्तुनो द्रव्यभवनात्मकस्योभयत्वादेव नित्यत्वस्यापि द्वित्वम् तदपि नित्यं यस्मिंस्तत्त्वं न विहन्यत इत्युक्तत्वात् ।
कूटस्थस्य द्रव्यस्य सर्वप्रभेदनिर्भेदस्य बीजभूतस्य गमनस्थानादि सर्वात्मकत्वेनावस्थितस्यानन्तमात्मानं पर्यनुभवतस्तदर्थानुभवना त्मत्वादेव द्रव्यकौटस्थ्यं युज्यते, इतरस्य तु तथा तथाऽभिव्यज्य मानस्य सततप्रवर्त्तनात्मनो भावस्याकौटस्थ्यं सततसंप्रवृत्तिरूपं नित्यत्वञ्च ।
अत एव भूताभूतभाक्त्वं द्रव्याद्वैधर्म्यमस्याः प्रवृत्तेरन्यत्वकारि, भूताभूता क्रिया, द्रव्यं भवदेव, व्यतिक्रान्त्यव्यतिक्रान्तिभाक्तत्वात् यथा कृतः कटो देवदत्तेन कृतः कर्मणा विभागः तत्र विभागः कटकर्तुश्चलनात्मकस्य कर्मण ईप्सिततमत्वात् कर्म, चलनेन देशान्तरं प्रापयित्वा क्रियत इति सा व्यतिक्रामति, विभागः कर्म च न व्यतिक्रामतः शब्दार्थस्य पिण्डितत्वात् न च व्यतिक्रमो निर्निमित्तो भवितुमर्हति दृष्टश्च वर्त्तमानयोः कर्मविभागयोद्रव्ययोरव्यतिक्रमे करणस्य व्यतिक्रमः ।