________________
पञ्चमोऽरः उभयनयः
१६७
नोच्यते योऽसौ भवति कोऽपीति, अस्वशब्दोपादानसाध्यभावत्वात् भावस्यास्मदुक्तानुकारात्, तद्विपर्ययेण तु द्रव्यभावस्य प्रश्नप्रतिवचने दृष्टे व्युत्पादनकाले, तद्यथा कस्य भाव इति प्रश्नः, प्रतिवचनमपि योऽसौ भवतीति उच्यते नोच्यते यत्तद्भूयते तद्भवनमेव, किं भूयते न भूयते केनापीति, स्वशब्दोपादानसिद्धभावत्वात् सत्त्वस्य।
लिङ्गादिमद्रव्यं तद्रहिता च क्रिया भिन्नमुभयमेव भाव इति लिङ्गसङ्ख्यावतो द्रव्यात् वस्तुत्वैकत्वगता क्रिया स्वरूपतोऽन्यैव, अलिङ्गसङ्ख्यत्वात् प्लक्षादिवत्, भिन्नानां पदार्थानामेकसम्बन्धि विषयवार्थः, समुच्चयोऽन्वाचयः समाहार इतरेतरयोगश्च पदार्थोत्तरकालभाविनः द्रव्याणां गुणानां क्रियाणाञ्च दृश्यन्ते, न चैते द्रव्यं न क्रिया न गुणः किन्तु वीरपुरुषविशेषणविशेष्यैकात्मवत् वस्तुत्वैकत्वगत्याऽनन्यान्यत्वभाजो धर्माः।
साधु भवतीत्यादौ भवने भवितृषु लिङ्गसङ्याभेदवत्सु याः लिङ्गसङ्ख्यास्ता न भवन्ति, भवने नपुंसकलिङ्गमेकवचनश्चानुमीयते श्रूयते च तद्विशेषणे साधुशब्दे, तस्मादन्यद्भवनं भवद्भयः।
प्रत्ययपप्रकृतिव्यवस्थायान्तु प्रथमैकवचने अतिक्रमकारणाभावात्, नपुंसकञ्च भवनस्याव्याक्तत्वात्, यथा लोके दृष्टं किमपि दृश्यत इति, तथा त्रिकालविषयाव्यादन्यो भावो न च तेन विना कारकः त्रिकालत्वात्, द्रव्यं त्रिकालविषयं भावस्य त्रिधा भिन्नकालत्वेऽप्येकरूपत्वात्, वर्तमानत्वेनावतिष्ठमानं तत्सम्बन्धे द्रव्यं त्रीनपि कालान् विषयीकरोति गमनगन्तृवत्, वर्तमान एव देवदत्ते गन्तरि गतेस्त्रैकाल्यं दृष्टम्, अगमद्गच्छति गमिष्यतीति. तथाऽभूद्भवति भविष्यति द्रव्यमिति।